________________
॥ षष्ठः त्रसकायोद्देशकः ॥ उक्तः पञ्चमोद्देशकः । साम्प्रतं षष्ठः समारभ्यते । अस्य च अयमभिसम्बन्धः-इह अनन्तरोद्देशके वनस्पतिकायः प्रतिपादितः, तदनन्तरं च त्रसकायस्य आगमे परिपठितत्वात् तत्स्वरूपाधिगमाय अयमुद्देशकः समारभ्यते । तस्य चोपक्रमादीनि चत्वारि अनुयोगद्वाराणि वाच्यानि यावद् नामनिष्पन्ने निक्षेपे त्रसकायोद्देशकः । तत्र त्रसकायस्य पूर्वप्रसिद्धद्वारक्रमातिदेशाय तद्विभिन्नलक्षणद्वाराभिधानाय च नियुक्तिकृदाह[नि०] तसकाए दाराइं ताई जाइं हवंति पुढवीए ।
____नाणत्ती उ विहाणे परिमाणुवभोग-सत्थे य ॥१५२॥ तसकाये इत्यादि । त्रस्यन्तीति त्रसाः, तेषां काय: त्रसकायः, तस्मिन् तान्येव द्वाराणि भवन्ति यानि पृथिव्यां प्रतिपादितानि । नानात्वं तु विधान-परिमाण-उपभोगशस्त्रद्वारेषु, चशब्दाद् लक्षणे च प्रतिपत्तव्यमिति ॥१५२॥
तत्र विधानद्वारमाह[नि०] दुविहा खलु तसजीवा लद्धितसा चेव गइतसा चेव ।
लद्धीय तेउ-वाऊ तेणऽहिगारो इहं नत्थि ॥१५३॥ दुविहेत्यादि । द्विविधाः द्विभेदाः, खलः अवधारणे, त्रसत्वं प्रति द्विभेदत्वमेव । त्रसनात् स्पन्दनात् त्रसाः, जीवनात् प्राणधारणाद् जीवाः, वसा एव जीवा:-त्रसजीवाः लब्धित्रसा गतित्रसाश्च । लब्ध्या तेजो-वायू त्रसौ, लब्धिः तच्छक्तिमात्रम् । लब्धित्रसाभ्यां इह अधिकारो नास्ति, तेजसोऽभिहितत्वाद् वायोश्चाभिधास्यमानत्वात् । अतः सामर्थ्याद् गतित्रसा एव अधिक्रियन्ते ॥१५३।।
के पुनस्ते कियदा वा ? ईत्याह
टि० १. प्रारभ्यते ख ग ॥ २. ०णि भवन्ति यावद् ख-चप्रती विना ॥ ३. तान्येवानुयोगद्वाराणि भ० ख ॥ ४. ०तसा तह य गइ० ॥ ५. लद्धीय वाउ-तेऊ ख ठ ॥ ६. इत्यत आह ख च ॥
वि०टि० + "लब्ध्य(?ब्ध्या) इति शक्त्या" जै०वि०प० । इदमत्रावधेयम्-श्रीमत्तत्त्वार्थाधिगमसूत्रे 'तेजो-वायून्द्रियाश्च वसा [२/१४] इत्यनेन सूत्रेण तेजो-वाय्वोः गतित्रसत्वं प्रदर्शितं; अत्र तु तयोरेव लब्धित्रसत्वं, ततः कथं न विरोध ? इति आशङ्का स्यात्; तत्तुच्छं, यतः नयसापेक्षे इमे वचने भाति । तत्त्वार्थे लोकव्यवहारमाश्रित्य गतित्रसत्वमुक्तम् आचा०निर्युक्तौ तु स्वाभाविकीगतिशक्तिमाश्रित्य लब्धित्रसत्वमुक्तं, तत्त्वं तु केवलिगम्यम् ॥
१२५