________________
[श्रु०१ | अ०१ । उ०५ । सू०४६ ] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
एवं वनस्पतेः चैतन्यं प्रदर्श्य तदारम्भे बैन्धं तत्परिहाररूपविरत्यासेवनेन च मुनित्वं प्रतिपादयन् उपसञ्जिहीर्षुराह
[सू० ] एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाता भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति ॥४६॥ [सू० ] तं परिणाय मेहावी णेव सयं वणस्सतिसत्थं समारभेज्जा, वऽण्णेहिं वणस्सतिसत्थं समारभावेज्जा, णेवऽण्णे वणस्सतिसत्थं समारभंते समणुजाणेज्जा ॥४७॥
[सू० ] जस्सेते वणस्सतिसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ॥ ४८ ॥
एत्थ सत्थमित्यादि । एतस्मिन् वनस्पतौ शस्त्रं द्रव्य- भावाख्यं आरभमाणस्य इत्येते आरम्भा अपरिज्ञाताः अप्रत्याख्याता भवन्ति । एतस्मिंश्च वनस्पतौ शस्त्रं असमारभमाणस्य इत्येते आरम्भाः परिज्ञाताः प्रत्याख्याता भवन्तीति पूर्ववच्चर्चः यावत् स एव मुनिः परिज्ञातकर्म्मा इति ब्रवीमि पूर्ववदिति ॥४६-४८॥
॥ इति शस्त्रपरिज्ञाध्ययने पञ्चमोद्देशकटीका समाप्तेति ॥ छ ॥
टि० १. बन्धपरिहार० च ॥ २. इति इति ख-चआदर्शयोर्नास्ति ॥ ३ ०परिज्ञायां प० ख ङ ।। ४. पञ्चमोद्देशकः ॥छ। घ ॥
१२४