________________
वनस्पतिचैतन्यसिद्धिः [श्रु०१। अ०१। उ०५। सू०४५] गतिविघूर्णमानलोललोचनविलासिनीसनूपुरसुकुमारचरणताडनाद् अशोकतरोः पल्लवकुसुमोद्भेदः, तथा सुरभिसुरागण्डूषसेकाद् बकुलस्य स्पृिष्टप्ररोदिकादीनां च हस्तादिसंस्पर्शात् सङ्कोचादिका परिस्फुटा क्रियोपलेब्धिः । न चैतद् अभिहिततरुसम्बन्धि क्रियाजालं ज्ञानमन्तरेण घटते, तस्मात् सिद्धं चित्तवत्त्वं वनस्पतेरिति ।
तथा यथा इदं छिन्नं म्लायति तथा एतदपि छिन्नं म्लायति । मनुष्यशरीरं हि हस्तादि छिन्नं म्लायति शुष्यति तथा तरुशरीरमपि पल्लव-फल-कुसुमादि छिन्नं शोषमुपगच्छद् दृष्टम्, न च अचेतनानामयं धर्म इति ।
तथा यथा इदं मनुष्यशरीरं स्तनक्षीर-व्यञ्जन-ओदनाद्याहाराभ्यवहाराद् आहारकं तथा एतदपि वनस्पतिशरीरं भू-जलाद्याहाराभ्यवहारकम्, न चैतद् आहारकत्वमचेतनानां दृष्टम्, अतस्तद्भावात् सचेतनत्वमिति ।
तथा यथा इदं मनुष्यशरीरकं अनित्यकं न सर्वदाऽवस्थायि तथा एतदपि वनस्पतिशरीरं अनित्यं नियतायुष्कत्वात्, तथा हि- अस्य दश वर्षसहस्राणि उत्कृष्टमायुः ।
तथा यथा इदं मनुष्यशरीरं अशाश्वतं प्रतिक्षणमावीचिमरणेन मरणात् तथा एतदपि वनस्पतिशरीरमिति ।
तथा यथा इदं इष्टा-ऽनिष्टाहारादिप्राप्त्या चया-ऽपचयिकं वृद्धि-हान्यात्मकं तथा एतद् अपि इति ।
तथा यथा इदं मनुष्यशरीरं विविधः परिणामः तत्तद्रोगसम्पर्कात् पाण्डुत्व-उदरवृद्धिशोफ-कृशत्वा-ऽङ्गुलि-नासिकाप्रवेशादिरूपो बालादिरूपो वा तथा रसायन-स्नेहाधुपयोगाद् विशिष्टकान्तिबलोपचयादिरूपो विपरिणामः, तद्धर्मकं तत्स्वभावकं तथा एतदपि वनस्पतिशरीरं तथाविधरोगो द्भवात् पुष्प-फल-पत्र-त्वगाद्यन्यथाभवनात् तथाविधदौहृदप्रदानेन पुष्प-फलाद्युपचयाद् विपरिणामधर्मकम् । एवमनन्तरोक्तधर्मकलापसम्भवाद् असंशयं गृहाण एतत् सचेतनास्तरवः इति ॥४५।।
टि० १. कुसुमोद्गमः । तथा ख च ॥ २. ०लब्धिर्भवेत् ॥ न ग ॥ ३. तथेदमपि ख ग च ॥ ४. ०ओदनाद्याहारकं ग च ।। ५. ०शरीरमपि ग ॥ ६. पुष्प-पत्र-फल-त्व० ख च ॥ ७. तथा विशिष्टदौ० ख । तथा विशिष्टाहारदौ० ग । तथा विशिष्टदोहदप्रदा० च ॥ ८. ०सद्भावात् ख च ।।
वि०टि० क "स्पष्टपरोदिकाः इति छिन्नपरोदिकाः" जै०वि०प० ॥
१२३