________________
[श्रु०१। अ०१। उ०५। सू०४५] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
इमं पि जाइधम्मयं ति । इह उपदेशदानाय सूत्रारम्भः, तद्योग्यश्च पुरुषो भवति, अतः तस्य सामर्थ्येन सन्निहितत्वात् तच्छरीरं प्रत्यक्षासन्नवाचिना इदमा परामृशति । इदमपि पुरुषशरीरं, जननं= जाति: उत्पत्तिः, तद्धर्मकम्, ऐतदपि वनस्पतिशरीरं तद्धर्मकं तत्स्वभावमेव इति । पूर्वकः अपिशब्दः सर्वत्र यथाशब्दार्थे, द्वितीयस्तु सेमुच्चये व्याख्येयः । ततश्च अयमर्थः- यथा पुरुषशरीरं बाल-कुमार-युव-वृद्धतापरिणामविशेषवत् चेतनावत् सदाधिष्ठितं प्रस्पष्टचेतनाकं उपलभ्यते तथा एतदपि वनस्पतिशरीरम्, यतो जातः केतकतरु: बालको युवा वृद्धश्च संवृत्त इति, अतः तुल्यत्वाद् एतदपि जातिधर्मकम् । न च कश्चिद् विशेषः अस्ति येन सति अपि जातिधर्मत्वे मनुष्यादिशरीरमेव सचेतनं न वनस्पतिशरीरमिति ।
ननु च जातिधर्मत्वं केश-नख-दन्तादिष्वपि अस्ति, अव्यभिचारि च लक्षणं भवति, अस्ति च व्यभिचारः, तस्माद् अयुक्तं कल्पयितुं जातिधर्मत्वं जीवलिङ्गमिति । उच्यतेसत्यम्, अस्ति जननमात्रम्, किन्तु मनुष्यशरीरप्रसिद्धबाल-कुमार-युव-वृद्धावस्थानां असम्भवः केशादिषु अस्ति स्फुटः, तस्माद् असमञ्जसमेतत् । अपि च केश-नखं चेतनावत्पदार्थाधिष्ठितशरीरस्थं जातमिति उच्यते, वर्धते इति वा, न पुनस्त्वयैवं 'तरवोऽपि चेतनावत्पदार्थाधारस्था इष्यन्ते, त्वन्मते भुवोऽचेतनत्वात्, तस्माद् अयुक्तमिति । अथवा जातिधर्मत्वादीनि समुदितानि सूत्रोक्तानि एक एव हेतुः, न पृथग्घेतुता, न च समुदायहेतुः केशादिषु अस्ति, तस्माद् अदोष इति ।
___ तथा यथा इदं मनुष्यशरीरमनवरतं बाल-कुमाराद्यवस्थाविशेषैः वर्धते तथा एतदपि वनस्पतिशरीरं अङ्कर-किशलय-शाखा-प्रशाखादिभिः विशेषैः वर्धत इति ।।
___तथा यथा इदं मनुष्यशरीरं चेतनावद एवं वनस्पतेरपि । कथम् ? चेतयति येन तत्-चित्तं ज्ञानम्, ततश्च यथा मनुष्यशरीरं ज्ञानेनानुगतं एवं वनस्पतिशरीरमपि यतो धात्रीप्रपुना[?न्ना] टादीनां स्वाप-विबोधतस्तद्भावः, तथाऽधोनिखातद्रविणराशेः स्वप्ररोहण आवेष्टनम्, प्रावृड्जलधरनिनादशिशिरवायुसंस्पर्शाद् अङ्करोद्भेदः, तथा मदमदनसङ्गस्खलद्
टि० १. मनुष्यशरीरं ख ग च ॥ २. एतदिति वन० ख ॥ ३. सर्वत्र वा शब्दार्थे घ । ४. ०शब्दार्थः द्वि० क ॥ ५. समुच्छ्रये च ॥ ६. मनुष्यशरीरं ख ग च ।। ७. तथेदमपि कप्रति विना ॥ ८. वनस्पतेरिति क ॥ ९. चित्तवद् कपुस्तकाद्विना ।। १०. वनस्पतिशरीरमपि चित्तवत् । कथं कप्रतेविना ॥ ११. ०शरीरं चित्तवत् । एवं च ज्ञानेना० ङ॥ १२. ० स्वाप-विबोधसद्भावः ख ।।
वि०टि० + "तरवोऽपि इति केशादयस्तावदिष्यन्त एव चेतनावत्पदार्थाधारस्थाः" जै०वि०प० ।।
१२२