________________
[श्रु०१।०१। उ०५। सू०४०] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् प्रव्रज्योत्थानेन उत्थाय-समुत्थाय, प्रव्रज्यां प्रतिपद्य इत्यर्थः । तदेवं वर्जितसकलसावद्यारम्भकलापः सन् तत् वनस्पतिदुःखं तदारम्भं वा नो करिष्यामीति, अनेन च संयमक्रिया दर्शिता । न च क्रियात एव मोक्षावाप्तिः । किं तर्हि ? ज्ञान-क्रियाभ्याम्, तदुक्तम्
"नाणं किरियारहियं किरियामित्तं च दो वि *एगंता ।
न समत्था दाउं जे जम्म-मरणदुक्ख मा भाइ ॥' [ सन्मति०३।६२ ] यत एवमतो विशिष्टमोक्षकारणभूतज्ञानप्रतिपिपादयिषया आह
मत्ता मइमं । मत्वा=ज्ञात्वा अवबुध्य यथावद् जीवान्, मतिरस्य अस्तीति मतिमान्, स एव उपदेशा) भवतीति अतः तद्द्वारेणैव शिष्यामन्त्रणं हे मतिर्मन् !, जीवादिपदार्थांश्च ज्ञात्वा प्रव्रज्यां च प्रतिपद्य मोक्षमवाप्नोतीति, सम्यग्ज्ञानपूर्विका हि क्रिया फलवतीति दर्शितं भवति । पुनरत्रैव आह
अभयं विदित्ता । अविद्यमानं भयमस्मिन् सत्त्वानामिति अभयः संयमः, स च सप्तदशविधानः, तं चाभयं सर्वभूतपरिपालनात्मकं संसारसागरात् निर्वाहकं विदित्वा वनस्पत्यारम्भात् निवृत्तिः विधेया इति । एतदेव दर्शयितुमाह
तं जे नो करए इत्यादि । तं वनस्पत्यारम्भं, यः विदिततदारम्भकटुकविपाको नो कुर्यात् तस्य प्रतिविशिष्टेष्टफलावाप्तिः, नान्यस्य अन्धमूढ्या प्रवर्तमानस्य, अभिलषितविप्रकृष्ट स्थानप्राप्तिप्रवृत्तान्धक्रियाव्याघातवदिति मन्तव्यम् । ज्ञानमपि क्रियाहीनं न मोक्षाय, गृहान्तर्दह्यमाननिनक्षुपङ्गचक्षुर्ज्ञानवदिति । एवं च ज्ञात्वाऽभ्युपेत्य च तत्परिहारः कर्तव्य इति दर्शितं भवति । एवं यः सम्यग्ज्ञानपूर्विकां निवृत्तिं करोति स एव समस्तारम्भनिवृत्त इति दर्शयति
टि० १. समुत्थाय । सम्यक् प्रव्रज्यां ग ।। २. दोन्नि ए० ख ।। ३. ०दुक्खदाहाइं ख । ०दुक्खमोहाई क । ०दुक्खमाहाइं च ॥ ४. अनुबुध्य क ॥ ५. ०मान् । मतिमानेवोपदेशार्हो ख ग च ॥ ६. ०मन् ! प्रव्रज्यां प्रतिपद्य जीवादिपदार्थांश्च ज्ञात्वा मोक्ष० ख ।। ७. ०प्रतिविशिष्टफला० क ।। ८. ०यासातवदिति ख ॥ ९. निवृत्तिं करोति इति ङ ॥
वि०टि० + “एगंता इति केवली" जै०वि०प० ॥ © "मरणदुक्ख मा भाई ति अभयमित्यर्थः" स०वि०प० । A"मोहाइं" इति भंसा(शा)दि जै०वि०प०|| क “अन्धस्तद्योति (मूढयेति) यथा कथञ्चित्" जै०वि०प०॥