________________
वनस्पत्यारम्भाकरणेऽनगारत्वम् [श्रु०१। अ०१। उ०५। सू०४०] असियगंदात्रम्, दात्रिका प्रसिद्धैव, कुद्दालक-वासि-परशवश्च, एतद् वनस्पतेः शस्त्रम्; तथा हस्त-पाद-मुखा-ऽग्नयश्च इत्येतत् सामान्यशस्त्रमिति ॥१४९॥
विभागशस्त्राभिधित्सया आह[नि०] किंची सकायसत्थं किंची परकाय तदुभयं किंचि ।
एयं तु दव्वसत्थं भावे अस्संजमो सत्थं ॥१५०॥ दा० ॥ किंचीत्यादि । किञ्चित् स्वकायशस्त्रं लकुटादि, किञ्चिच्च परकायशस्त्रं पाषाणा-ऽग्न्यादि, तथा उभयशस्त्रं दात्र-दात्रिका-कुठारादि, एतद् द्रव्यशस्त्रम् । भावशस्त्रं पुनः असंयमः दुष्प्रणिहितमनो-वाक्-कायलक्षण इति ॥१५०।।
सेकलनियुक्त्यर्थपरिसमाप्तिप्रचिकटयिषया आह[नि०] सेसाणि उ दाराइं ताई जाइं हवंति पुढवीए ।
एवं वणस्सईए निज्जुत्ती कित्तिया ऐसा ॥१५१॥ छ । दारं ॥ सेसा इत्यादि । उक्तव्यतिरिक्तशेषाणि तानि एव द्वाराणि यानि पृथिव्यां अभिहितानि । ततस्तद्वाराभिधानाद् वनस्पती नियुक्तिः कीर्तिता-व्यावर्णितेति ॥१५१॥
साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदम्[ सू०] तं णो करिस्सामि समुट्ठाए मत्ता मतिमं अभयं विदित्ता तं जे णो करए एसोवरते, एत्थोवरए, एस अणगारे त्ति पवुच्चति ॥४०॥
तन्नो करिस्सामि समुट्ठाए । अस्य च अनन्तर-परम्परादिसूत्रैः सम्बन्धः प्राग्वद् वाच्यः । उक्तं प्राक् ‘सातान्वेषिणो हि वनस्पतिजन्तूनां दुःखमुदीरयन्ति', ततश्च तन्मूलमेव दुःखगहने संसारसागरे भ्राम्यन्ति सत्त्वाः इति । एवं विदितकटुकविपाकः समस्तवनस्पतिसत्त्वविषयविमर्दनिवृत्तिं आत्यन्तिकी आत्मनि दर्शयन्नाह-तत् वनस्पतीनां दुःखमहं दृष्टप्रत्यपायो न करिष्ये । यदि वा तत् दुःखोत्पत्तिनिमित्तभूतं वनस्पतावारम्भं छेदन-भेदनादिरूपं नो करिष्ये मनो-वाक्-कायैः, तथा परैः न कारयिष्ये, तथा कुर्वतश्च अन्यान् न अनुमंस्ये । किं कृत्वा ? इति दर्शयति-सर्वज्ञोपदिष्टमार्गानुसृत्या सम्यक्
टि० १. ०शस्त्रं कुठारादि । किञ्चिच्च ख ॥ २. सर्वनिर्यु० ख ॥ ३. एसा ॥१५१॥ समाप्ता पञ्चमोद्देशकनियुक्तिः ॥छ। झ । एसा ॥१५१॥ अध्य० १ उद्दे० ५॥ ठ ।। ४. समुट्ठाय ङ ।
११५