________________
[श्रु०१। अ०१। उ०५। नि०१४७] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् योगित्वादिति ॥१४६॥ तथा अपरोऽपि परिभोगविधिः, तद्दर्शनाय आह[नि०] आउज्ज कट्टकम्मे गंधंगे वत्थ मल्लजोए य ।
झावण-वियावणेसु य तेल्लविहाणे अ उज्जोवे ॥१४७॥ आउज्जेत्यादि । आतोद्यानि पटह-भेरी-वंश-वीणा-झल्लादीनि, काष्ठकर्म प्रतिमा-स्तम्भ-द्वारशाखादीनि, गन्धाङ्गानि वालक-प्रियङ्ग-पत्रक-दमनक-त्वक्-चन्दनउशीर-देवदार्वादीनि, वस्त्राणि वल्कल-कर्पासमयादीनि, माल्ययोगाः नेवमालिकाबकुल-चम्पक-पुन्नागा-ऽशोक-मालती-विचकिलादयः, ध्यापनं दाहो भस्मसात्करणमिन्धनैः, वितापनं शीताभ्यर्दितस्य शीतापनयनाय काष्ठप्रज्वालनात्, तैलविधानं तिला-ऽतसी-सर्षप-ईंङ्गदी-ज्योतिष्मती-करञ्जादिभिः, उद्द्योतः वर्ति-तृण-चूडाकाष्ठादिभिरिति ॥१४७॥ एवं एतानि उपभोगस्थानानि प्रतिपाद्य तदुपसञ्जिहीर्घराह[नि०] एएहि कारणेहिं हिंसंति वणस्सई बहू जीवे ।
सायं गवेसमाणा परस्स दुक्खं उदीरेंति ॥१४८॥ दारं । एएहीत्यादि । एतैः गाथाद्वयोपात्तैः कारणैः प्रयोजनैः हिंसन्ति-व्यापादयन्ति प्रत्येकसाधारणवनस्पतिजीवान् बहून् वनस्पतिसमारम्भिणः पुरुषाः । किम्भूतास्ते ? इति दर्शयति- सातं =सुखं, तदन्वेषिणः परस्य च वनस्पत्यायेकेन्द्रिय-द्वीन्द्रियादेः दुःखंबाधामुत्पादयन्तीति ॥१४८।।
साम्प्रतं शस्त्रमुच्यते-तच्च द्विधा, द्रव्य-भावभेदात् । द्रव्यशस्त्रमपि समासविभागभेदाद् द्विधैव । तत्र समासद्रव्यशस्त्राभिधित्सया आह[नि०]
कप्पणि कहाडि असियग दत्तिय कुद्दाल वासि परसू अ ।
सत्थं वणस्सईए हत्था पाया मुहं अग्गी ॥१४९॥ कप्पणीत्यादि । कल्प्यते छिद्यते यया सा कल्पनी शस्त्रविशेषः, कुठारी प्रसिद्धैव,
टि० १. मल्ले जोए झ ।। २. झामण-वियामणेसु ञ । झावणसियावणेसु झ ॥ ३. वनमालिका० क ॥ ४. ०पनं शीतापन० क च ॥ ५. ०सर्षपा-ऽङ्गदी० ख ॥ ६. ०सञ्जिहीर्षयाह ख च ।। ७. कुहट्ठि ब ॥ ८. यसियग क ब ।। ९. सत्था ज झ ॥
वि०टिo # "अङ्गदी इति इंगोरी । ज्योतिष्कानी[?ष्मति] इति कंगुणी" जै०वि०प० । “उद्दे० ५ज्योतिष्मती कांगुणी" स०वि०प० ॥
११४