SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ [नि० ] बादरनिगोदपरिमाणम् [श्रु०१ । अ०१ । उ०५ । नि०१४६ ] पत्थेण व कुडवेण व जह कोइ मिणिज्ज सव्वधन्नाई । एवं मविज्जमाणा हवंति लोया अणंता उ ॥१४४॥ पत्थेणेत्यादि । प्रस्थ-कुडवादिना यथा कश्चित् सर्वधान्यानि प्रमिणुयात्, मित्वा च अन्यत्र प्रक्षिपेत्; एवं यदि नाम कश्चित् साधारणजीवराशिं लोककुडवेन मित्वा अन्यत्र प्रक्षिपेत्, तत एवं मीयमानी अनन्ता लोका भवन्तीति ॥१४४॥ इदानीं बादरनिगोदपरिमाणाभिधित्सया आह [नि०] जे बायरपज्जत्ता पयरस्स असंखभागमेत्ता ते । सेसा असंखलोया तिन्नि वि साहारणाऽणन्ता ॥ १४५॥ दारं ॥ जे बायरेत्यादि । ये पर्याप्तकबादरनिगोदाः ते संवर्तितचतुरस्त्रीकृतसकललोकप्रतरासङ्ख्येयभागवर्तिप्रदेशराशिपरिमाणा भवन्ति, एते पुनः प्रत्येकशरीरबादरवनस्पतिपर्याप्तकजीवेभ्यो असङ्ख्येयगुणाः । शेषाः त्रयोऽपि राशयः प्रत्येकमसङ्ख्ये - यलोकाकाशप्रदेशपरिमाणाः । के पुनस्त्रयः ? इत्युच्यते - अपर्याप्तकबादरनिगोदा अपर्याप्तकसूक्ष्मनिगोदाः पर्याप्तकसूक्ष्मनिगोदाः । एते च क्रमशो बहुतरका दृष्टव्या इति । साधारणजीवाः तेभ्योऽनन्तगुणाः । एतच्च जीवपरिमाणम्, प्राक्तनं तु राशिचतुष्टयं निगोदपरिमाणमिति ॥१४५॥ परिमाणद्वारानन्तरं उपभोगद्वारमभिधित्सुराह— [नि० ] आहारे उवगरणे सयणा - * ऽऽसण जाण जुग्गकरणे य । आवरण पहरणेसु य सत्थविहाणेसु य बहूसु ॥ १४६॥ आहारेत्यादि । आहारः फल - पत्र- किशलय - मूल - कन्द- त्वगादिनिर्वर्त्यः, उपकरणं व्यजन- कटक - वलका -ऽर्गलादि, शयनं खट्वा - फलकादि, आसनम् आसन्दकादि, यानं शिबिकादि, युग्यं गन्त्रिकादि, आवरणं फलकादि, प्रहरणं लकुटमुसुण्ढ्यादि । शस्त्रविधानानि च बहूनि तन्निर्वर्त्यानि शर - दात्र - खड्ग - क्षुरिकादिदण्डोप टि० १. ०ना भवन्ति लोका अनन्ता इति ख च ॥ २. सेसा तिन्नि वि रासी असंख साहारणमणंता ञ ।। ३. साहारणमणंता ज ॥ ४. ०द्वारम( द्वारा ) भिधित्सयाह क ॥। ५. आसिन्दिकादि ग ।। ६. ०मुसलादि ग च ॥ ७ ० गण्डोप० ख विना । ०षण्डोप० ग च ॥ वि०टि० एते च क्रमशो बहु- बहुतरकाः । साधा०जीवास्तेभ्योऽप्यनन्तगुणाः । एतज्जीवप्रमाणम्" ठटिप्पणी ॥ = " पाटला" ठटिप्पणी | p "खेटका" ठटिप्पणी ॥ A "खड्गक्षुरिकादिदण्ड" ठटिप्पणी । ११३
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy