________________
[श्रु०१। अ०१। उ०५। नि०१४२]
[नि० ]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
एक्स्स दोण्ह तिण्ह व संखेज्जाण वे तहा असंखाणं । पत्तेयसरीराणं दीसंति सरीरसंघाया ॥१४२॥
एगस्सेत्यादि । एकजीवपरिगृहीतशरीरं ताल - सरल - नालिकेर्यादिस्कन्धः, स च चक्षुर्ग्राह्यः, तथा बिस-मृणाल-कर्णिका-कुणक-कटाहानां एकेजीवपरिगृहीतत्वं चक्षुर्दृश्यत्वं च । द्वि-त्रि-सङ्ख्येया-ऽसङ्ख्येयजीवपरिगृहीतत्वमप्येवं दृश्यतया भावनीयमिति ॥१४२॥ किमनन्तानामपि एवम् ? न इत्यत आह
[नि०]
एगस्स दोह तिह व संखेज्जाण व ण पासिउं सक्का । दीसंति सरीराइं णिओयजीवाणऽणंताणं ॥ १४३॥ दा० ॥
४
एगस्सेत्यादि । न एकादीनां असङ्ख्येयावसानानां अनन्ततरुजीवानां शरीराणि उपलभ्यन्ते । कुतः ? असम्भवात्, न हि एकादिजीवपरिगृहीतानि अनन्तानां शरीराणि सन्ति, अनन्तजीवपिण्डत्वादेव । कथं तर्हि उपलभ्यास्ते भवन्ति ? इति दर्शयति - दृश्यन्ते शरीराणि बादरनिगोदानां जीवानां अनन्तकायिकानाम्; सूक्ष्मनिगोदानां तु नोपलभ्यन्ते, अनन्तजीवसङ्घार्तत्वेऽपि सति अतिसूक्ष्मत्वादिति भावः । निगोदास्तु नियमत व अनन्तजीवसङ्घाता भवन्तीति, उक्तं च
" गोला य असंखेज्जा होंति णिओया असंखया गोले । एैगेगो य निओओ अनंतजीवो मुणेयव्वो ॥ [ बृहत्सं०३०१ ]
एवं वनस्पतीनां वृक्षादिप्रत्येकादिभेदात् तथा वर्ण- गन्ध-रस - स्पर्शभेदात् सहस्राग्रशो विधानानि सङ्ख्येयानि योनिप्रमुखानि शतसहस्राणि भेदानामवसेयानीति । तथा हि— वनस्पतीनां संवृता योनिः सा च सचित्ता - ऽचित्त - मिश्रभेदात् त्रिधा, तथा शीतोष्णमिश्रभेदाच्च; तथा प्रत्येकतरूणां दश लक्षा योनिभेदानाम्, साधारणानां च चतुर्दश, कुलकोटीनां द्वयोरपि पञ्चविंशतिकोटिशतसहस्राणीति ॥ १४३ ॥ उक्तं विधानद्वारम् । इदानीं परिमाणमभिधीयते, तच्च प्रथमं सूक्ष्मानन्तजीवानां दर्शयितुमाहँ—
११२
टि० १. विक छ ज ॥ २. ०कजीवत्वं च ॥ ३. ०त्वमित्येवं घ ङ । ४. अभावात् कपुस्तकेन विना ।। ५. ० दानामनन्तजीवानाम् । सूक्ष्म० ख च । ०दानामनन्तकायिकानां जीवानाम् । सूक्ष्म० ग । ०दानां स(संख्येवा(या) नामनन्तकायिकानाम् । सूक्ष्म० ङ । घप्रतौ पाठत्रुटि: ॥ ६. ०तत्वे सत्यप्यतिसूक्ष्म० ख च ।। ७. एक्क्को ख । एक्वेक्वे य णिओए अणंतजीवा मुणेयव्वा ग च ॥ ८. तत्र ग ङ ।।
वि०टि० = प्रत्येकतरुजीवपरिमाणं प्राक् १३४ गाथया उक्तम् ॥