SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ साधारणलक्षणनिरूपणम् [श्रु०१। अ०१। उ०५। नि०१४१] नियमप्रदर्शनमेतत्, शेषं तु किशलयादि सकलं न मूलजीवपरिणामाविर्भावितमेव इति अवगन्तव्यमिति । यत उक्तम्"सव्वो वि किसलओ खलु उग्गममाणो अणंतओ भणिओ ।" [प्रज्ञा०सू०१९४] इत्यादि ॥१३८॥ तथा अपरं साधारणलक्षणमभिधित्सुराह[नि०] चक्कागं भज्जमाणस्स गंठी चुण्णघणो भवे । पुढविसरिसेण भेदेणं अणंतजीवं वियाणाहि ॥१३९॥ चक्कागमित्यादि । यस्य मूल-कन्द-त्वक्-पत्र-पुष्प-फलादेः भज्यमानस्य चक्रकं भवति, चक्राकारः समच्छेदो भङ्गो भवतीति यावत् । यस्य च ग्रन्थिः पर्व भङ्गस्थानं वा चूर्णेन= रजसा घन: व्याप्तो भवति । यो वा भिद्यमानो वनस्पतिः पृथिवीसदृशेन भेदेन केदारोपरिशुष्कतरिकावत् पुटभेदेन भिद्यते तमनन्तकायं विजानीहि ॥१३९॥ तथा लक्षणान्तरमाह[नि०] गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जै पिय पणट्ठसंधि अणंतजीवं वियाणाहि ॥१४०॥ गूढसिरागमित्यादि । स्पष्टार्था ॥१४०॥ एवं साधारणजीवान् लक्षणतः प्रतिपाद्य सम्प्रति नामग्राहमनन्तान् वनस्पतीन् दर्शयितुमाह[नि०] सेवाल कच्छभाणिय अवए पणए य किन्नए य हढे । एए अणंतजीवा भणिया अण्णे अणेगविहा ॥१४१॥ सेवाल० इत्यादि । शैवल-कच्छभाणिका-ऽवक-पनक-किण्व-हठादयोऽनन्तजीवा गदिताः, अनेकप्रकाराश्च अन्येऽपीत्थमवगन्तव्या इति ॥१४१।। सम्प्रति प्रत्येकतरूणां एकादिजीवपरिगृहीतशरीरदृश्यत्वप्रतिपिपादयिषया आह टि० १. साम्प्रतं साधा० ख । साम्प्रतमपरं साधा० च । तथा साम्प्रतमपरं साधा० ग ।। २. गूढच्छिरागपत्तं छ । ३. जं पुण पण० ख ठ॥ ४. ०टुसंधि अणं० ज । संधि य अणं० ठ ।। ५. अवते पणते य किन्नते य हदे ज ।। ६. अणेगजीवा अ भणि० ख ॥ ७. ०वा जे आऽवण्णे तहाविहा ॥१४१॥ ञ ॥ ८. चण्णे झ ॥ ९. ०हढादयो० च ॥ १०. ०पादयिषुराह च ।। १११
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy