________________
[श्रु०१ । अ०१ । उ०५ । नि०१३७]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
=
साहारणेत्यादि । समानं एकं धारणं = अङ्गीकरणं शरीरा - ऽऽहारादेः येषां ते साधारणाः, तेषां साधारणानां अनन्तकायानां जीवानां साधारणं सामान्यं एकं आहारग्रहणम्, तथा प्राणापानग्रहणं च साधारणमेव, एतत् साधारणलक्षणम् । एतदुक्तं भवतिएकस्मिन्नाहारितवति सर्वेऽपि आहारितवन्तः, तथा एकस्मिन्नुच्छ्वसिते निःश्वसिते वा सर्वेऽपि उच्छ्वसिता निःश्वसिता वेति ॥ १३६|| अमुमेवार्थं स्पष्टयितुमाह
[नि०]
ऐंगस्स उ जं गहणं बहूण साहारणाण तं चेव । जं बहुयाणं गहणं समासओ तं पि एगस्स ॥१३७॥
एगस्सेत्यादि । एको यद् उच्छ्वास- निःश्वासयोग्यपुद्गलोपादानं विधत्ते बहूनामपि साधारणजीवानां तदेव भवति । तथा यच्च बहवो ग्रहणमकार्षुः एकस्यापि तैदेव इति ॥१३७॥ अथ ये बीजात् प्ररोहन्ति वनस्पतयः तेषां कथमाविर्भावः ? इत्यत आह[नि०] जोणीभू बीए जीवो वक्कमइ सो व अन्नो वा । * जो वि य मूले जीवो सो चिय पत्ते पढमयाए ॥ १३८ ॥
जोणीभू इत्यादि । अत्र भूतशब्दः अवस्थावचनः, योन्यवस्थे बीजे, योनिपरिणाममजहति इत्यर्थः । बीजस्य हि द्विविधा अवस्था -योन्यवस्था अयोन्यवस्था च । यदा योन्यवस्थां न जहाति बीजं उज्झितं च जन्तुना तदा योनिभूतमुच्यते । योनिस्तु जन्तोः उत्पत्तिस्थानमविनष्टमिति । तस्मिन् बीजे योनिभूते जीवः व्युत्क्रामति - उत्पद्यते स एव पूर्वको बीजजीवो अन्यो वा आगत्य तत्र उत्पद्यते । एतदुक्तं भवति यदा जीवेन आयुष्कक्षयाद् बीजपरित्यागः कृतो भवति, तस्य च यदा बीजस्य क्षित्युदकादिसंयोगः तदा कदाचित् स एव प्राक्तनो जीवः तत्र आगत्य परिणमते, कदाचिदन्य इति । यश्च मूलतया जीवः परिणमते स एव प्रथमपत्रतयाऽपीति, एकजीवकर्तृके मूल पत्रे इति यावत् । प्रथमपत्रकं च या असौ बीजस्य समुच्छूनावस्था भू-जल - कालापेक्षा सैव उच्यत इति
टि० १. साधारणमिहैतत् सा० ख ॥ २. एगस्स उ जइ गहणं ख । एगस्स आणुगहणं ज ठ विना ॥ ३. तदेव भवति । अथ ङ ॥। ४. इत्यत्राह ख ॥। ५. वा तत्रागत्योत्पद्यते ख ॥। ६. आयुषः क्ष० च ॥ ७. एष ग ।। ८. ० कालापेक्ष्या सैषोच्यत ग ॥
११०
वि०टि० = "जो पुण मूले जीवो सो निव्वत्तेइ जा पढमपत्तं ।
कंदाइ जाव बीयं सेसं अन्ने पकुव्वंति ॥ दशवैकालिकनिर्युक्तौ ( गा० ) " ज-ठप्रत्योष्टिप्पणी ॥