SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ जीवशरीराणि वृक्षाः [श्रु०१। अ०१। उ०५। नि०१३६] विशेषानुपादानात् साधारणाः सूक्ष्म-बादर-पर्याप्तका-ऽपर्याप्तकभेदेन चतुर्विधा अपि पृथक् पृथगनन्तानां लोकानां यावन्तः प्रदेशाः तावन्त इति । अयं तु विशेषःसाधारणबादरपर्याप्तकेभ्यो बादरा अपर्याप्तका असङ्ख्येयगुणाः, बादरापर्याप्तकेभ्यः सूक्ष्मा अपर्याप्तका असङ्ख्येयगुणाः, तेभ्योऽपि सूक्ष्माः पर्याप्तका असङ्ख्येयगुणा इति ॥१३४।। सम्प्रत्येषां तरूणां यो जीवत्वं नेच्छति तं प्रति जीवत्वप्रतिपादनेच्छया नियुक्तिकृदाह[नि०] एएहिँ सरीरेहिं पच्चक्खं ते परूविया जीवा । सेसा आणागिज्झा [य] चक्खुणा जे न दीसंति ॥१३५॥ [दारं ?] एएहीत्यादि । एतैः पूर्वप्रतिपादितैः तरुशरीरैः प्रत्यक्षप्रमाणविषयैः प्रत्यक्षं साक्षात् ते वनस्पतिजीवाः प्ररूपिता:=प्रसाधिताः, तथा हि-न हि एतानि शरीराणि जीवव्यापारं अन्तरेण एवं विधाकारभाञ्जि भवन्ति, तथा च प्रयोगः-जीवशरीराणि वृक्षाः, अक्षाधुपलब्धिभावात्, पाण्यादिसङ्घातवत् । तथा कदाचित् सचित्ता अपि वृक्षाः, जीवशरीरत्वात्, पाण्यादिसङ्घातवदेव। तथा मन्दविज्ञान-सुखादिमन्तः तरवः, अव्यक्तचेतनानुगतत्वात्, सुप्तादिपुरुषवत् । तथा चोक्तम् "वृक्षादयोऽक्षाद्युपलब्धिभावात्, पाण्यादिसङ्घातवदेव देहाः । तद्वत् सजीवा अपि *देहतायाः, सुप्तादिवद् ज्ञान-सुखादिमन्तः ॥' [ शेषा इति सूक्ष्माः, ते च चक्षुषा नोपलभ्यन्त इति आज्ञया ग्राह्याः, आज्ञा च भगवद्वचनं अवितथं अरक्त-द्विष्टप्रणीतमिति श्रद्धातव्यमिति ॥१३५॥ साम्प्रतं साधारणलक्षणमभिधित्सुराह[नि०] साहारणमाहारो साहारणमाणुपाणुगहणं च । साहारणजीवाणं साहारणलक्खणं एयं ॥१३६॥ ख च ॥ ५. ग्राह्या इति । आज्ञा कप्रतिमा टि० १. ०णविशेषैः प्र० च ॥ २. अक्ष्याधुप० क-च ।। ३. ०ऽक्ष्याद्युप० च ।। ४. सुप्तादिविज्ञान ख च ॥ ५. ग्राह्या इति । आज्ञा कप्रतिमृते ॥ ६. श्रद्धातव्यमेव क-गआदी विना ॥ ७. साहारण आणुपाणग० ख झ ठ । साहारण आणुपाणु० ज ॥ वि०टिO # "तथा कदाचिद् इति तथा भवन्ति" जै०वि०प० । क "देहताया इति अयं हेतुरुभयथा सम्बध्यते" जै०वि०प० । १०९
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy