________________
[श्रु०१।०१। उ०५। नि०१३२] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् शब्दोपादानादिति ॥१३१॥ अस्मिन्नेवार्थे दृष्टान्तान्तरमाह[नि०] जह वा तिलसक्कुलिया बहुएहिँ तिलेहिँ मेलिदा संती ।
पत्तेयसरीराणं तेह जाण सरीरसंघाया ॥१३२॥ जह वेत्यादि । यथा वा तिलशष्कुलिका तिलप्रधाना पिष्टमयपोलिका बहुभिः तिलैः निष्पादिता सती भवति तथा प्रत्येकशरीराणां तरूणां शरीरसङ्घाता भवन्तीति दृष्टव्यमिति ॥१३२॥
साम्प्रतं प्रत्येकशरीरजीवानां एका-ऽनेकाधिष्ठितत्वप्रतिपिपादयिषया आह[नि०] नाणाविहसंठाणा दीसंती एगजीविया पत्ता ।
खंधा वि एगजीवा ताल-सरल-नालिएरीणं ॥१३३॥ णाणाविहेत्यादि । नानाविधं भिन्नं संस्थानं येषां तानि नानाविधसंस्थानानि पत्राणि, यानि च एवंभूतानि दृश्यन्ते तानि एकजीवाधिष्ठितानि अवगन्तव्यानि । तथा स्कन्धा अपि एकजीवाधिष्ठिताः ताल-सरल-नालिके र्यादीनाम्, न अत्र अनेकजीवाधिष्ठितत्वं सम्भवतीति । अवशिष्टानां तु अनेकजीवाधिष्ठितत्वं सामर्थ्यात् प्रतिपादितं भवति ॥१३३।।
__ सम्प्रति प्रत्येकतरुजीवराशिपरिमाणाभिधित्सया आह[नि०] पत्तेया पज्जत्ता सेढी' असंखभागमेत्ता ते ।
लोगाऽसंखाऽपज्जत्तगाण साधारणाऽणंता ॥१३४॥ पत्तेया इत्यादि । प्रत्येकतरुजीवाः पर्याप्तका: *संवर्तितचतुरस्रीकृतलोकश्रेण्यसङ्ख्येयभागवाकाशप्रदेशराशि तुल्यप्रमाणाः, एते च पुनः बादरतेजस्कायपर्याप्तकराशेः असङ्ख्येयगुणाः । ये पुनः अपर्याप्तकाः प्रत्येकजन्तवः ते हि असङ्ख्येयानां लोकानां यावन्तः प्रदेशाः तावन्त इति । एतेऽपि अपर्याप्तकबादरतेजस्कायजीवराशेः असङ्ख्येयगुणाः । सूक्ष्मास्तु वनस्पतयः प्रत्येकशरीरिणः पर्याप्ता अपर्याप्तका वा न सन्त्येव । साधारणास्त्वनन्ता इति
टि० १. तह हंति स० क-छपुस्तके विना ।। २. खंधे य एगजीवो ज ।। ३. साम्प्रतं ग ॥ ४. सेढीय ज ॥ ५. साधारणमणंता ज ।। ६. ०ता ॥१३४॥ दारां। क छ । ७. ० तुल्यपरिमाणाः ख ।। ८. एते ह्यपर्या० क॥
वि०टि० "संवर्तित इति सप्तरज्जुप्रमाणा" जै०वि०प० ॥
१०८