________________
प्रत्येकवनस्पतिजीवभेदाः [श्रु०१। अ०१। उ०५। नि०१३१] शैवल-कलम्बुका-पा[?ह]ठा-कसेरुका-उत्पल-पद्म-कुमुद-नलिन-पुण्डरीकादयः ११॥ कुहु[?ह]णास्तु भूमिस्फोटकाभिधानाः आय-काय-कुहण-कुंण्ढुक्कोदेहलिका-सर्पकच्छत्रादयः १२। एषां हि प्रत्येकजीवानां वृक्षाणां मूल-स्कन्ध-कन्द-त्वक्-साल-प्रवालादिषु असङ्ख्येयाः प्रत्येकं जीवाः, पत्राणि पुष्पाणि च एकजीवानि मन्तव्यानि ॥१२९॥
साधारणास्तु अनेकविधाः, तद्यथा-लोही-निहू-स्तुभायिका-अश्वकर्णी-सिंहकर्णीशृङ्गबेर-मालुका-मूलक-कृष्णकन्द-सूरणकन्द-काकोली-क्षीरकाकोलीप्रभृतयः । सर्वेऽपि एते सक्षेपात् षोढा भवन्ति इत्युक्तम्, के पुनस्ते भेदाः ? इत्याह[नि०] अग्गबीय मूलबीया खंधबीया चेव पोरबीया य ।
बीयरुहा सम्मुच्छिम समासओ वणप्फतीजीवा ॥१३०॥ अग्गबीआ इत्यादि । तत्र कोरण्टकादयो अग्रबीजाः, कदल्यादयो मूलबीजाः, निहू-शल्यकी-अरणिकादयः स्कन्धबीजाः, इक्षु-वंश-वेत्रादयः पर्वबीजाः, बीजरुहाः शालि-व्रीह्यादयः, सम्मूर्च्छनजाः पद्मिनी-शृङ्गाटक-पा[?ह] ठा-शैवलादयः, एवमेते समासात् तरुजीवाः षोढा कथिताः, नान्ये सन्तीति प्रतिपत्तव्यम् ॥१३०॥
___किंलक्षणाः पुनः प्रत्येकतरवो भवन्ति ? इत्यत आह[नि०] जह सगलसरिसवाणं "सिलेसमिस्साण वत्तिया वट्टी ।
पत्तेयसरीराणं तह होंति सरीरसंघाया ॥१३१॥ जहेत्यादि । यथा इति दृष्टान्तोपन्यासार्थः, यथा सकलसर्षपाणाम् श्लेषयतीति श्लेषः सर्जरसादिः, तेन मिश्रितानां वर्तिता-वलिता वर्तिः तस्यां च वर्ती प्रत्येकप्रदेशाः क्रमेण सिद्धार्थकाः स्थिताः, नान्योन्यानुवेधेन, चूर्णितास्तु कदाचिदन्योन्यानुवेधभाजोऽपि स्युः इत्यतः सकलग्रहणम् । यथाऽसौ वर्तिः तथा प्रत्येकतरुशरीरसङ्घातः, यथा च सर्षपाः तथा तदधिष्ठायिनो जीवाः, यथा श्लेषविमिश्रिताः तथा रागद्वेषप्रचितकर्मपुद्गलोदयमिश्रिता जीवाः । पश्चिमार्द्धन गाथाया उपन्यस्तदृष्टान्तेन सह साम्यं प्रतिपादितम्, तथा इति
टि० १. ०कायकोण्डुक्कोद्वेहलिकाः सर्प० ख ॥ २. ०कुहुण० क-खपुस्तके विना ॥ ३. कुन्दुक्कोदेह० ग ङ च । कण्टुक्वोद्देह० घ ॥ ४. ०कर्णी-वृन्ताबेरा० क । ०कर्णी-शृङ्गबेरा० घ ङ ॥ ५. अग्गबीया मूलबीया खंधबीया क-जआदर्शी विना ।। ६. सर्व्यरसादिस्नेहेन मि० क ।
वि०टि० “अक्षत" ठप्रतौ टिप्पणी ॥ क"लक्षादि" ठपुस्तके टिप्पणी ॥
१०७