________________
गुणा-ऽऽवर्त्तयोरैक्यम्
[श्रु०१। अ०१। उ०५ । सू०४१]
एसोवर ति । एष एव सर्वस्मादारम्भाद् वनस्पतिविषयादुपरतो यो यथावत् ज्ञात्वा आरम्भं न करोतीति । स पुनरेवंविधनिवृत्तिभाक् किं शाक्यादिष्वपि सम्भवति उत न ?, इहैव प्रवचने इति दर्शयति
एत्थोवर ति । एतस्मिन्नेव जैनेन्द्रे प्रवचने परमार्थत उपरतः, नान्यत्र । यथाप्रतिज्ञातनिरवद्यानुष्ठायित्वाद् उपरतव्यपदेशभाग् भवति, न शेषा: शाक्यादयः, तद्विपरीतत्वाद् । एष एव च सम्पूर्णानगारव्यपदेशमश्नुते इति दर्शयति-—
ऐस अणगारे त्ति पवुच्चइति । एषः अतिक्रान्तसूत्रार्थव्यवस्थितः अविद्यमानागारः=अनगारः प्रकर्षेण उच्यते = प्रोच्यते इति । किंकृतः प्रकर्षः ? अनगारव्यपदेशकारणभूतगुणकलापसम्बन्धकृतः प्रकर्षः । इतिशब्दः अनगारव्यपदेशकारणपरिसमाप्तिद्योती, एतावदनगारलक्षणम्, नान्यदिति ॥४०॥
ये पुनः प्रोज्झितपारमार्थिकानगारगुणाः शब्दादीन् विषयानङ्गीकृत्य प्रवर्तन्ते ते तु नापेक्षन्ते वनस्पतीन् जीवान्, यतो भूयांसः शब्दादयो गुणा वनस्पतिभ्य एव निष्पद्यन्ते, शब्दादिगुणेष्वेव वर्तमाना रोग-द्वेषविषमविषविघूर्णमानलोललोचना नरकादिचतुर्विधगत्यन्तःपातिनो बोद्धव्याः, तदन्तःपातिन एव च शब्दादिविषयाभिष्वङ्गिणो भवन्तीति । अस्यार्थस्य प्रसिद्धये गत- प्रत्यागतलक्षणं इतरेतरावधारणफलं सूत्रमाह[सू०] जे गुणे से आवट्टे, जे आवट्टे से गुणे ।
जे गुणे से आवट्टे, जे आवट्टे से गुणे । यो गुणः शब्दादिकः स आवर्तः, आवर्तन्ते= परिभ्रमन्ति प्राणिनो यत्र स आवर्तः संसारः । इह च कारणमेव कार्यत्वेन व्यपदिश्यते यथा नड्वलोदकं पादरोगः । एवं य एते शब्दादयो गुणाः स आवर्तः तत्कारणत्वात् । अथवा एकवचनोपादानात् पुरुषो अभिसम्बध्यते, यः शब्दादिगुणे वर्तते स आवर्ते वर्तते, यश्च आवर्ते वर्तते स गुणे वर्तत इति ।
अत्र कैश्चित् चोद्यचञ्चुराह—–‘यो गुणे वर्तते स आवर्ते वर्तते इति साधु | यः पुनरावर्ते वर्तते नासौ नियमत एव गुणेषु वर्तते, यस्मात् साधवो वर्तन्त आवर्ते, न गुणेषु । तद् एतत्
टि० १. उत इहैव प्रवचने ? इति ख ग घ ङ च ॥ २. एसऽणगारे ख । एस अणगार इति पवु० क । एस अणगार त्ति पव्वुच्चई एषः ग ॥ ३. राग-द्वेषविघूर्ण० घ । राग-द्वेषविषविघूर्ण० ङ ॥ ४. ०याभिषङ्गणो क-गप्रती ऋते ॥ ५. अथ घ ङ ॥ ६. कश्चिन्नोद्यचञ्च० ख ॥ ७ गुणेषु कप्रतिमृते ॥ ८. गुणे किन्तु घ ॥
११७