________________
अग्निसमुज्ज्वालको महाकर्मकरः
[श्रु०१। अ०१ । उ०४। सू०३८]
सङ्घातम्=अधिकं गात्रसङ्कोचनं, मयूरपिच्छवद् आपद्यन्ते, चशब्दस्य अधिकार्थत्वात् । खलुशब्दोऽवधारणे, अग्नेरेवायं प्रतापो, नापरस्य इति । यदि वा सप्तम्यर्थे द्वितीया, स्पृष्टशब्दश्च पतितवचनः । ततश्च अयमर्थो भवति - अग्नौ एव स्पृष्टाः = पतिताः, एके शलभादय:, सङ्घातं सम् एकीभावेन अधिकं गात्रसङ्कोचनं आपद्यन्ते प्राप्नुवन्ति । ये च तत्र अग्नौ पतिताः सङ्घातमापद्यन्ते ते प्राणिनः तत्र अग्नौ पर्यापद्यन्ते, पर्यापत्तिः सम्मूर्च्छनम्, ऊष्माभिभूता मूर्च्छामापद्यन्ते इत्यर्थः ।
अथ किमर्थं सूत्रकृता विभक्तिपरिणामोऽकारि ? इत्युच्यते - मागधदेशीसमनुवृत्तेः, व्याख्याविकल्पप्रदर्शनार्थं वा, अध्याहारादयोऽपि व्याख्याङ्गानि इत्यनेन शिष्यो ज्ञापितो भवति । अथ के पुनस्तेऽध्याहारादय इति ? उच्यन्ते – अध्याहारो विपरिणामो व्यवहितकल्पना गुणकल्पना लक्षणा वाक्यभेदश्च इति । इह च द्वितीयाविभक्तेः सप्तमीपरिणामः कृत इति ।
ये च तत्र अग्नौ पर्यापद्यन्ते ते प्राणिनः कृमि - पिपीलिका - भ्रमर-नकुलादयः तत्र अग्नौ अपद्रान्ति, प्राणान्मुञ्चन्तीत्यर्थः । तदेवं अग्निसमारम्भे सति न केवलं अग्निजन्तूनां विनाशः किन्तु अन्येषामपि पृथ्वी - तृणपत्र - काष्ठ - गोमय - कचवराश्रितानां सम्पातिनां च व्यापत्तिः अवश्यंभाविनीति । अत एव च भगवत्यां भगवता उक्तम्–
"दो पुरिसा सरिसवया अन्नमन्नेहिं सद्धि अगणिकायं समारंभंति, तत्थ णं एगे पुरिसे अगणिकायं समुज्जालेइ, एगे विज्झवेइ, तत्थ णं के पुरिसे महाकम्मयराए, के पुरिसे अप्पकम्मराए ? गोयमा ! जे उज्जालेइ से महाकम्मयराए, जे विज्झवेइ से अप्पकम्मराए ।" [ व्या०प्रज्ञ० ७ /१०/३०६ ] ||३७|
तेदेवं प्रभूतसत्त्वोपमैर्दनकरं अग्न्यारम्भं विज्ञाय मनो-वाक्-कायैः कृत-कारिताऽनुमतिभिश्च तत्परिहारः कार्य इति दर्शयितुमाह
[सू०] एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाता भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवंति ॥३८॥
टि० १. ० स्याधिक्यार्थत्वात् क - खआदर्शों विना ॥। २ ० भावेन गात्र० ख ॥। ३. अग्नावुपद्रान्ति च ॥ ४. ....... एतच्चिह्नस्थः पाठो घ ङआदर्शयोरेव ॥ ५. तत एवं प्र० ख । अत एव प्र० च ।। ६. ० मर्दनमग्न्या० च ॥
१०३