________________
[श्रु०१।०१। उ०४। सू०३७] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
इत्येवमर्थं च गृद्धो लोको यत् करोति तद् दर्शयति-यदिदं विरूपरूपैः शस्त्रैः अग्निकर्म समारभते, तदारम्भेण च अग्निशस्त्रं समारभते, तच्चारभमाणो अन्यान् अनेकरूपान् प्राणिनो विहिनस्तीति ॥३६॥
___ कथं पुनरग्निसमारम्भप्रवृत्ता नानाविधान् प्राणिनो विहिंसन्ति ? इति दर्शयितुमाह[सू०] से बेमि- संति पाणा पढविणिस्सिता, तणणिस्सिता, पत्तणिस्सिता, कट्ठणिस्सिता, गोमयणिस्सिता, कयवरणिस्सिया । संति संपातिमा पाणा आहच्च संपयंति य ।
__ से बेमीत्यादि । तदहं ब्रवीमि यथा नानाविधजीवहिंसनं अग्निकायसमारम्भेण भवतीति । यथाप्रतिज्ञातार्थं दर्शयति- सन्ति विद्यन्ते, प्राणा:-जन्तवः, पृथिवीकायनिश्रिताः, पृथ्वीकायत्वेन परिणता इत्यर्थः, तदाश्रिता वा कृमि-कुन्थु-पिपीलिकागण्डूपदा-ऽहि-मण्डूक-वृश्चिक-कर्कटकादयः, तथा वृक्ष-गुल्म-लतावितानादयः, तथा तृणपत्रनिश्रिता पतङ्गेलिकादयः, तथा काष्ठनिश्रिता घुणोद्देहिका-पिपीलिका-ऽण्डादयः, गोमयनिश्रिताः कुन्थु-पनकादयः, कचवरः पत्र-तृण-धूलिसमुदायः, तन्निश्रिताः कृमिकीट-पतङ्गादयः ।
तथा सन्ति-विद्यन्ते, सम्पतितुम्-उत्प्लुत्य उत्प्लुत्य गन्तुं आगन्तुं वा शीलं येषां ते सम्पातिनः, प्राणिनः=जीवाः मक्षिका-भ्रमर-पतङ्ग-मशक-पक्षि-वातादयः । एते च सम्पातिनः आहत्य-उपेत्य स्वत एव, यदि वा अत्यर्थं कदाचिद् वा अग्निशिखायां सम्पतन्ति च । तदेवं पृथिव्यादिनिश्रितानां जीवानां यद् भवति तद् दर्शयितुमाह
अगणिं च खलु पुट्ठा एगे संघातमावज्जति । जे तत्थ संघातमावज्जंति ते तत्थ परियावज्जंति । जे तत्थ परियावज्जति ते तत्थ उद्दायंति ॥३७॥
अगणिं चेत्यादि । रन्धन-पचन-तापनाद्यग्निगुणार्थिभिः अवश्यमग्निसमारम्भो विधेयः, तत्समारम्भे च पृथिव्यादिनिश्रितानां जीवानां एता वक्ष्यमाणा अवस्था भवन्ति । छान्दसत्वात् तृतीयार्थे द्वितीया । ततश्च अयमर्थः-अग्निना स्पृष्टाः छुप्ता, ऐके
टि० १. ०र: तृण-पत्र-धूलि० क-गपुस्तके ऋते ॥ २. एके केचन सङ्घा० ग ॥
१०२