SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ अग्निशस्त्रस्य वीरैदृष्टपूर्वता [श्रु०१। अ०१। उ०४। सू०३३] सूत्रावयवपरामर्श करोति जे असत्थस्सेत्यादि । यश्च अशस्त्रे-संयमे निपुणः स खलु दीर्घलोकशस्त्रस्य अग्नेः क्षेत्रज्ञः खेदज्ञो वा । संयमपूर्वकं हि अग्निविषयखेदज्ञत्वम्, अग्निविषयखेदज्ञतापूर्वकं च संयमानुष्ठानम्, अन्यथा तदसम्भव एव इत्येतद् गतप्रत्यागतफलमाविर्भावितं भवति ॥३२॥ कैः पुनः इदं एवं उपलब्धम् ? इत्यत आह-वीरेहीत्यादि । अथवा वक्तृप्रसिद्धौ सत्यां वाक्यप्रसिद्धिः भवति इत्यतोऽपदिश्यते[ सू०] वीरेहि एयं अभिभूय दिटुं संजतेहिं सता जतेहिं सदा अप्पमत्तेहिं । वीरेहीत्यादि । घनघातिकर्मसङ्घातविदारणानन्तरप्राप्तातुलकेवलश्रिया विराजन्त इति वीराः तीर्थकृतः, तैः वीरैः अर्थतो दृष्टमेतद् गणधरैश्च सूत्रतोऽग्निशस्त्रं दृष्टं संयमस्वरूपं चेति । किं पुनः अनुष्ठाय इदं तैरुपलब्धम् ? इत्यत्रोच्यते-अभिभूय त्ति । अभिभवो नामादिश्चतुर्धा । द्रव्याभिभवो रिपुसेनादिपराजयः, आदित्यतेजसा वा चन्द्रग्रह-नक्षत्रादितेजोऽभिभवः । भावाभिभवस्तु परीषहोपसर्गानीक-ज्ञान-दर्शनावरण-मोहाऽन्तरायकर्मनिर्दलनम्, परीषहोपसर्गादिसेनाविजयाद् विमलं चरणम्, चरणशुद्धः ज्ञानावरणादिकर्मक्षयः, तत्क्षयाद् निरावरणं अप्रतिहतं अशेषज्ञेयग्राहि केवलज्ञानमुपजायते । इदमुक्तं भवति-परीषहोपसर्ग-ज्ञान-दर्शनावरणीय-मोहा-ऽन्तरायाणि अभिभूय केवलमुत्पाद्य तैरुपलब्धमिति । यथाभूतैः तैः इदमुपलब्धं तद् दर्शयति संजएहिं ति । सम्यग् यता: संयताः प्राणातिपातादिभ्यः तैः, तथा सदा सर्वकालं, चरणप्रतिपत्तौ मूलोत्तरगुणभेदायां निरतिचारत्वाद् यत्नवन्तः तैः । तथा सदा सर्वकालं न विद्यते प्रमाद: मद्य-विषय-कषाय-विकथा-निद्राख्यो येषां ते अप्रमत्ताः तैः, एवम्भूतैः महावीरैः केवलज्ञानचक्षुषा इदं दीर्घलोकशस्त्रं अशस्त्रं च संयमः दृष्टम्= उपलब्धमिति । अत्र च यत्नग्रहणाद् ईर्यासमित्यादयो गुणा गृह्यन्ते, अप्रमादग्रहणात् तु मद्यादिनिवृत्तिरिति । तदेवं एतत् प्रधानपुरुषप्रतिपादितं अग्निशस्त्रमपायदर्शनाद् अप्रमत्तैः टि० १. ०खेदज्ञानपूर्वकं च ॥ २. अथवा सद्वक्तृ० घ ङ ॥ ३. ०त्यत उपदिश्यते ग ॥ ४. सूत्रतो दृष्टमग्निशस्त्रं संय० ख च ॥ ५. ०भूतैः तैरेवमुप० च ॥ ६. त्वाद् यता यत्न० ग ॥ ७. यतग्रहणाद् ग ॥
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy