________________
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
[श्रु०१ । अ०१ । उ०४ । सू०३३] साधुभिः परिहार्यमिति । एवं प्रत्यक्षीकृतानेकदोषजालमपि अग्निशस्त्रं उपभोगलोभात् प्रमादवशगा ये न परिहरन्ति तानुद्दिश्य विपाकदर्शनाय आह
जे पत्ते गुणद्विते से हु दंडे पवुच्चति ।
जे पमत्तेत्यादि । यो हि प्रमत्तो भवति मद्य-विषयादिप्रमादैरसंयतः गुणार्थी रन्धन-पचन-र्प्रकाश-तापनाद्यग्निगुणप्रयोजनवान् स दुष्प्रणिहितमनो-वाक्-कायोऽग्निशस्त्रसमारम्भतया प्राणिनां दण्डहेतुत्वाद् दण्डः प्रकर्षेण उच्यते = प्रोच्यते, आयुर्धृतादिव्यपदेशवदिति । यतश्चैवं ततः किं कर्तव्यम् ? इत्यत आह
तं परिण्णाय मेहावी इदाणीं णो जमहं पुव्वमकासी पमादेणं ॥३३॥
तं परिन्नाय मेहावी । तम् अग्निकायविषयं समारम्भं दण्डफलं, परिज्ञाय ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभ्यां मेधावी मर्यादाव्यवस्थितो वक्ष्यमाणप्रकारेण व्यवच्छेदं आत्मनि आचिनोतीति। तमेव प्रकारं दर्शयितुमाह
इयाणीमित्यादि । यमहम् अग्निसमारम्भं विषयप्रमादेन आकुलीकृतान्तःकरणः सन् पूर्वमकार्षं तमिदानीं जिनवचनोपलब्धाग्निसमारम्भदण्डतत्त्वः नो करोमीति ||३३|| अन्ये तु अन्यथावादिनो अन्यथाकारिण इति दर्शयितुमाह
[सू० ] लज्जमाणा पुढो पास । 'अणगारा मो' त्ति एगे पवदमाणा, जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारंभेणं अगणिसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति ॥३४॥
लज्जमाणेत्यादि यावत् अण्णे वऽणेगरूवे पाणे विहिंसति त्ति । अस्य ग्रन्थस्य उक्तार्थेस्य अयमर्थो लेशतः प्रदर्श्यते- लज्जमाना:= :- स्वागमोक्तानुष्ठानं कुर्वाणाः सावद्यानुष्ठानेन वा लज्जां कुर्वाणाः, पृथग्= विभिन्नाः शाक्यादयः । पश्य इति संयमानुष्ठाने स्थिरीकरणार्थं शिष्यस्य चोदना । अनगारा वयम् इत्येके प्रवदमानाः, किं तैः विरूपमाचरितं येनैवं प्रदर्श्यन्ते ? इति दर्शयति-यदिदं विरूपरूपैः शस्त्रैः अग्निकर्मसमारम्भेण अग्निशस्त्रं समारभमाणः सन् अन्यान् अनेकरूपान् प्राणिनो विविधं
टि० १ ० प्रकाशा - ऽऽताप० घ ङ च ॥ २. अग्निकायसमारम्भं ग । अग्निकायविषयमारम्भं च ॥ ३. आचिनोतीत्यादि ख । चिनोति ग । ४. दर्शयन्नाह ग ।। ५. ०र्थस्य लेशतोऽयमर्थः प्रद० कगप्रती विना ॥ ६ प्राणिनो विहिनस्ति क विना ॥
१००