________________
[श्रु०१। अ०१। उ०४। सू०३२] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् उत्पाद्यमानो ज्वाल्यमानो वा हव्यवाह: समस्तभूतग्रामघाताय प्रवर्तते । वनस्पतिदाहप्रवृत्तस्तु बहुविधसत्त्वसंहतिविनाशकारी विशेषतः स्यात्, यतो वनस्पतौ कृमि-पिपीलिका-भ्रमरकपोत-श्वापदादयः सम्भवन्ति, तथा पृथिव्यपि तरुकोटरव्यवस्थिता स्यात्, आपोऽपि अवश्यायरूपाः, वायुरपि ईषच्चञ्चलस्वभावकोमलकिशलयानुसारी सम्भाव्यते, तदेवमग्निसमारम्भप्रवृत्त एतावतो जीवान् नाशयति । अस्य अर्थस्य सूचनाय दीर्घलोकशस्त्रग्रहणंअकरोत् सूत्रकार इति । तथा चोक्तम्
"जायतेजं न इच्छंति, पावगं जलइत्तए । तिक्खमण्णयरं सत्थं, सव्वओ वि दुरासयं ॥ पातीणं पडिणं वा वि, उड्ढे अणुदिसामवि । अहे दाहिणओ वा वि, दहे उत्तरओ वि य ॥ भूयाणमेस माघाओ, हव्ववाहो न संसओ ।
तं पईवपयावट्ठा, संजया किंचि नारभे ॥" [ दशवै०६।३३-३५] अथवा बादरतेजस्कायाः पर्याप्तकाः स्तोकाः, शेषाः पृथिव्यादयो जीवकाया बहवः । (बादराग्नेः) भवस्थितिरपि त्रीणि अहोरात्राणि स्वल्पा, इतरेषां तु पृथिवी-अब्-वायुवनस्पतीनां यथाक्रमं द्वाविंशति-सप्त-त्रि-दशवर्षसहस्रपरिमाणा दीर्घा अवसेया इति । अतो दीर्घलोकः पृथिव्यादिः, तस्य शस्त्रम् अग्निकायः, तस्य क्षेत्रज्ञः निपुणः, अग्निकायं वर्णादितो जानातीत्यर्थः । खेदज्ञो वा, खेदः तद्व्यापारः सर्वसत्त्वानां दहनात्मकः पाकाद्यनेकशक्तिकलापोपचितः प्रवरमणिरिव जाज्वल्यमानो लब्धाग्निव्यपदेशो यतीनां अनारम्भणीयः, तमेवंविधं खेदम्= अग्निव्यापार जानातीति खेदज्ञः । अतो य एव दीर्घलोकशस्त्रखेदज्ञः स एव अशस्त्रस्य-सप्तदशभेदस्य संयमस्य खेदज्ञः, संयमो हि न कञ्चिज्जीवं व्यापादयति अतो अशस्त्रम् । एवमनेन संयमेन सर्वसत्त्वाभयप्रदायिना अनुष्ठीयमानेन अग्निजीवविषयः समारम्भः शक्यः परिहर्तुं पृथिव्यादिकायसमारम्भश्चेति, एवमसौ संयमे निपुणमतिः भवति । ततश्च निपुणमतित्वाद् विदितपरमार्थोऽग्निसमारम्भाद् व्यावृत्य संयमानुष्ठाने प्रवर्तते । इदानीं गत-प्रत्यागतलक्षणेन अविनाभावित्वप्रदर्शनार्थं विपर्ययेण
टि० १. एतान् जीवान् ख ।। २. यावि क ॥
वि०टि० + "तिन्नेव अहोरत्ता उक्कोसेण वियाहिया ॥ आउठिई तेऊणं अंतोमहत्तं जहन्नयं ॥" उ० अ० ३६ गा० ११३ । 'द्विती वि अड्डाइज्जा राइंदिया' आचा०चू०३२ ।।