________________
वनस्पतिशस्त्रा-ऽशस्त्रखेदज्ञयोर्व्याप्तिः [श्रु०१। अ०१। उ०४। सू०३२] एवमयं अग्निलोकः सामान्यात्मवद् न अभ्याख्यातव्य इति प्रदर्शितम् । अधुना अग्निजीवप्रतिपत्तौ सत्यां तद्विषयसमारम्भकटुकफलपरिहारोपन्यासाय सूत्रमाह
जे दीहलोगसत्थस्स खेत्तण्णे से असत्थस्स खेत्तण्णे, जे असत्थस्स खेत्तण्णे से दीहलोगसत्थस्स खेत्तण्णे ॥३२॥
जे दीहेत्यादि । य इति मुमुक्षुः, दीर्घलोकः-वनस्पतिः, यस्माद् असौ कायस्थित्या परिमाणेन शरीरोच्छ्रयेण च शेषैकेन्द्रियेभ्यो दीर्घो वर्तते । तेथा हि-कायस्थित्या तावत्
"वणस्सइकाइए णं भंते ! वणस्सइकाइए त्ति कालओ केवचिरं होइ ? गोयमा ! अणंतं कालं, अणंताओ उस्सप्पिणि-अवसप्पिणीओ, खेत्तओ अणंता लोया, असंखेज्जा पोग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाए असंखेज्जइभागे।" [प्रज्ञा०सू०१८।१२८८]
परिमाणतस्तु
"पडुप्पन्नवणस्सइकाइयाणं भंते ! केवतिकालस्स "निल्लेवणा सिया ? गोयमा ! पडुप्पन्नवणस्सइकाइयाणं नत्थि निल्लेवणा ।" [ जीवाभि०३।२।१०२]
तथा शरीरोच्छ्याच्च दीर्घो वनस्पति:
"वणस्सइकाइयाणं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! साइरेगं जोयणसहस्सं सरीरोगाहणा ।" [ प्रज्ञा०सू०२१।१५०६(१)] न तथा अन्येषां एकेन्द्रियाणाम् । अतः स्थितमेतत्-सर्वथा दीर्घलोको वनस्पतिरिति । अस्य च शस्त्रमग्निः, यस्मात् स हि प्रवृद्धज्वालाकलापाकुलः सकलतरुगणप्रध्वंसनाय प्रभवति, अतोऽसौ तदुत्सादकत्वात् शस्त्रम् ।
ननु च सर्वलोकप्रसिद्ध्या कस्मादग्निरेव न उक्तः ? किं वा प्रयोजनमुररीकृत्य उक्तं दीर्घलोकशस्त्रमिति ? अत्रोच्यते-प्रेक्षापूर्वकारितया, न निरभिप्रायमेतत् कृतमिति, यस्मादयं
टि० १. तत्र हि ख ॥ २. ०काइय त्ति ख । ०कातिते त्ति ग ।। ३. ०ज्वालामालाकुलः च ॥
वि०टि० + "अणंता लोया इति कोऽर्थः ? अनन्तलोकेषु ये प्रदेशास्तैस्तुल्यता समयानाम् एवं च एतावान् कालो भवति ॥ एतावत्कालेन कियन्तः पुद्गलपरावर्ता भवन्ति ? इत्याह-असंखेज्जा इति ॥ असङ्ख्यातं बहुधा इत्याह ते णं इति" जै०वि०प० ॥ क “निल्लेवणा इति अस्माल्लोकादुद्धारः" जै०वि०प० ॥
९७