________________
[श्रु०१।०१। उ०४। सू०३२] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदम्[सू०] से बेमि-णेव सयं लोगं अब्भाइक्खेजा, णेव अत्ताणं अब्भाइक्खेजा । जे लोगं अब्भाइक्खति से अत्ताणं अब्भाइक्खति, जे अत्ताणं अब्भाइक्खति से लोगं अब्भाइक्खति ।
से बेमीत्यादि । अस्य च सम्बन्धः प्राग्वद् वाच्य इति । येन मया सामान्यात्मपदार्थपृथिव्यप्कायजीवप्रविभागव्यावर्णनमकारि स एव अहं अव्यवच्छिन्नज्ञानप्रवाह: तेजोजीवस्वरूपोपलम्भसमुपजनितजिनवचनसम्मदो ब्रवीमि । किं पुनस्तद् ? इति दर्शयति
नेवेत्यादि । इह हि प्रकरणसम्बन्धाद् लोकशब्देन अग्निलोको अभिधित्सितः; अतस्तमग्निलोकं जीवत्वेन नैव स्वयम् आत्मना अभ्याचक्षीत, नैव अपह्ववीत इत्यर्थः । एतदभ्याख्याने हि आत्मनोऽपि ज्ञानादिगुणकलापानुमितस्य अभ्याख्यानमवाप्नोति । अथ च प्राक् प्रसाधितत्वाद् अभ्याख्यानं नैव आत्मनो न्याय्यम्; एवं तेजस्कायस्यापि प्रसाधितत्वाद् अभ्याख्यानं क्रियमाणं न युक्तिपथमवतरति ।
एवं च अस्य युक्त्यागमबलप्रसिद्धस्य अभ्याख्याने क्रियमाणे सति आत्मनोऽपि अहंप्रत्ययसिद्धस्य अभ्याख्यानं भवतः प्राप्तम् । एवमस्तु इति चेत्, तन्न इति दर्शयति-नेव अत्ताणं अब्भाइक्खेज्जा । नैव आत्मानं शरीराधिष्ठातारं ज्ञानगुणं प्रत्यात्मसंवेद्यं प्रत्याचक्षीत, तस्य शरीराधिष्ठातृत्वेन 'आहृतं इदं शरीरं केनचिद् अभिसन्धिमता तथा त्यक्तं इदं शरीरं के नचिदभिसन्धिमतैव' इत्येवमादिभिः हेतुभिः प्रसाधितत्वात्, न च प्रसाधितसाधनं पिष्टपेषणवद् विद्वज्जनमनांसि रञ्जयति ।
एवं च सति आत्मवत् प्रसाधितमग्निलोकं यः प्रत्याचक्षीत सोऽतिसाहसिक: आत्मानम् अभ्याख्याति-निराकरोति । यश्च आत्माऽभ्याख्यानप्रवृत्तः स सदैव अग्निलोकमभ्याख्याति, सामान्यपूर्वकत्वाद् विशेषाणाम् । सति ह्यात्मसामान्ये पृथिव्याद्यात्मविभागः सिद्ध्यति, नान्यथा, सामान्यस्य विशेषव्यापकत्वात्, व्यापकविनिवृत्ती च व्याप्यस्यापि अवश्यम्भाविनी विनिवृत्तिरिति कृत्वा ।
टि० १. युक्तागम० घ ङ ॥ २. ज्ञानगुणप्रत्या० क । ज्ञानमुख्यगुणप्रत्या० च ॥ ३. ०प्रवृत्तः स एवाग्नि० ख ॥ ४. ह्यात्मन्येव क ।
९६