SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ तेजस्कायिकानां समासतः शस्त्रम् [श्रु०१। अ०१। उ०४। नि०१२५] एएहीत्यादि । एतैः दहनादिभिः कारणैः तेजस्कायिकान् जीवान् हिंसन्ति इति सङ्घट्टन-परितापन-अपद्रावणानि कुर्वन्ति । सातं सुखं, तद् आत्मनोऽन्विषन्तः परस्य बादराग्निकायस्य दुःखम् उदीरयन्ति-उत्पादयन्तीति ॥१२२॥ साम्प्रतं शस्त्रद्वारम् । तच्च द्रव्य-भावभेदाद् द्विधा । द्रव्यशस्त्रमपि समास-विभागभेदाद् द्विधैव । तत्र समासतो द्रव्यशस्त्रप्रतिपादनाय आह[नि०] पुंढवी य आउकाओ उल्ला य वणस्सई तसा पाणा । बायरतेउक्काए ऐयं तु समासओ सत्थं ॥१२३॥ __ पुढवीत्यादि । पृथ्वी-धूलिः, अप्कायश्च, सार्द्रश्च वनस्पतिः, त्रसाः प्राणिनः, एतद् बादरतेजस्कायजन्तूनां समासतः सामान्येन शस्त्रमिति ॥१२३।। विभागतो द्रव्यशस्त्रमाह[नि०] किंची सकायसत्थं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे अस्संजमो सत्थं ॥१२४॥ दारं ॥ ___ किंचीत्यादि । किञ्चित् शस्त्रं स्वकाय एव, अग्निकाय एव अग्निकायस्य, तद्यथा-तार्णोऽग्निः पार्णाग्नेः शस्त्रमिति । किञ्चिच्च परकायशस्त्रं उदकादि । उभयशस्त्रं पुनः तुष-करीषादिव्यतिमिश्रा अग्निः अपराग्नेः । तुशब्दो भावशस्त्रापेक्षया विशेषणार्थः, एतत् तु पूर्वोक्तं समास-विभागरूपं पृथ्वी-स्वकायादि द्रव्यशस्त्रमिति । भावशस्त्रं दर्शयति- भावे शस्त्रम् असंयमः दुष्प्रणिहितमनो-वाक्-कायलक्षण इति ॥१२४।। उक्तव्यतिरिक्तद्वारातिदेशद्वारेण उपसञ्जिहीर्षुः नियुक्तिकृदाह[नि०] सेसाइं दाराइं ताई जाइं हवंति पुढवीए । एवं तेउद्देसे निज्जुत्ती कित्तिया ऍसा॥१२५॥ सेसाणीत्यादि । उक्तशेषाणि द्वाराणि तान्येव यानि पृथिव्युद्देशके अभिहितानि । एवं उक्तप्रकारेण तेजस्कायोद्देशके नियुक्तिः कीर्तिता व्यावर्णिता भवतीति ॥१२५॥ ____ टि० १. ०भावशस्त्रभेदाद् क-खप्रती विना ॥ २. पुढवी आउक्काए ख ञ ठ । पुढवीए आउक्काए क ॥ ३. एवं ठ ।। ४. एवं बादर० च ।। ५. भावे य असंजमो ठ ।। ६. गाहा ज ॥ ७. इमाइँ ञ ॥ ८. एसा ॥१२५॥ प्रथमे चतुर्थोद्देशकनियुक्तिः ॥छ। झ । एसा ॥१२५॥ अध्य०१ उद्दे० ४ ॥ ९. तेजस्कायाभिधानोद्देशके ख ग च ॥
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy