________________
[श्रु० १ | अ०१ । उ०४ । नि०१२०]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
अनेकान्तः, सर्वेषां आत्मप्रयोगपूर्वकं यत उष्णपरिणामभाक्त्वम्, तस्मात् न अनेकान्तः । तथा सचेतनं तेजः, यथायोग्याहारोपादानेन वृद्धिविशेषतेद्विकारवत्त्वात्, पुरुषवत् । एवमादिलक्षणेन आग्नेयजन्तवोऽवसेया इति ॥११९॥
उक्तं लक्षणद्वारम् । तदनन्तरं परिमाणद्वारमाह
९४
[नि० ]
जे बायरपज्जत्ता पलियस्स असंखभागमेत्ता ।
सेसा तिन्नि वि रासी वीसुं लोया असंखेज्जा ॥१२०॥ दारं ॥
जे बायरेत्यादि । ये बादरपर्याप्तानलजीवाः क्षेत्रपल्योपमासङ्ख्येयभागमात्रवर्तिप्रदेश प्रमाण भवन्ति ते पुनः बादरपृथिवीकायपर्याप्तकेभ्यो असङ्ख्येयगुणहीनाः । शेषाः त्रयोऽपि राशयः पृथ्वीकायवद् भावनीयाः, किन्तु बादरपृथ्वीकायापर्याप्तकेभ्यो बादराग्न्यपर्याप्तका असङ्ख्येयगुणहीनाः, सूक्ष्मपृथ्वीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयापर्याप्तका विशेषहीनाः, सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः सूक्ष्माग्नेयपर्याप्तका विशेषहीना इति ॥ १२० ॥
[नि०]
साम्प्रतमुपभोगद्वारमाह
डहणे पयावणे पगासणे ये भत्तकरणे य सेए य । बायरतेडक्काए उवभोगगुणा मणुस्साणं ॥१२१॥
दहणेत्यादि । दहनं शरीरावयवस्य वाताद्यपनयनार्थम्, प्रकृष्टं तापनं प्रतापनं शीतापनोदाय, प्रकाशकरणम् = उद्योतकरणं प्रदीपादिना, भक्तकरणम् ओदनादिरन्धनम्, स्वेदः ज्वर-विसूचिकादीनाम्, इत्येवमादिषु अनेकप्रयोजनेषु उपस्थितेषु मनुष्याणां बादरतेजस्कायविषया उपभोगरूपा गुणा: - उपभोगगुणा भवन्तीति ॥१२१॥ तदेवं एवमादिभिः कारणैरुपस्थितैः सततमारम्भप्रवृत्ता गृहिणो यत्याभासा वा सुखैषिणः तेजस्कायजन्तून् हिंसन्तीति दर्शयितुमाह—
[नि०]
एएहिँ कारणेहिं हिंसंते तेउकाइए जीवे ।
सायं गवेसमाणा परस्स दुक्खं उदीरेंति ॥ १२२ ॥ दारं ॥
टि० १. उष्णपरमाणुभाक्त्वम् ख ॥ २. ०तद्विकारत्वात् ख च विना ॥ ३. ०नाग्नेया जन्तवो निश्चेया इति च । ० नाग्नेयजन्तवो निश्चेया इति ख ॥ ४ उ छ विनाऽन्यत्र ॥ ५. ०राशिपरिमाणा ख ग च ॥ ६. य से य भत्तकरणे य ख ठ ॥ ७. हिंसंती ते० ख ञ । हिंसंति उ ते० ज झ ठ |