________________
लक्षणद्वारनिरूपणम् [श्रु०१। अ०१। उ०४। नि०११९] समुद्घातेन सर्वलोकवर्तिनः ते च पृथिव्यादयो मारणान्तिकसमुद्घातेन सेमवहता बादराग्निषु उत्पद्यमानाः तव्यपदेशभाजः सर्वलोकव्यापिनो भवन्ति । यत्र च बादराः पर्याप्तकाः तत्रैव बादरा अपर्याप्तकाः, तन्निश्रया तेषां उत्पद्यमानत्वात् । तदेवं सूक्ष्मा बादराश्च पर्याप्तका-ऽपर्याप्तकभेदेने प्रत्येकं द्विधा भवन्ति । एते च वर्ण-गन्ध-रसस्पर्शादेशैः सहस्राग्रशो भिद्यमानाः सख्येययोनिप्रेमुखशतसहस्रभेदपरिमाणा भवन्ति । तत्र एषां संवृता योनिरुष्णा च सचित्ता-ऽचित्त-मिश्रभेदात् त्रिधा, सप्त चैषां योनिलक्षा भवन्ति ।
साम्प्रतं चशब्दसमुच्चितं लक्षणद्वारमाह[नि०] जह देहपरीणामो रत्तिं खज्जोयगस्स सा उवमा ।
__ जरियस्स व जा उपहा एसुवमा तेउजीवाणं ॥११९॥ दारं ॥ जहेत्यादि । यथा इति दृष्टान्तोपन्यासार्थः, देहपरिणामः प्रतिविशिष्टा शरीरशक्तिः, रात्रौ इति विशिष्टकालनिर्देशः, खद्योतक इति प्राणिविशेषपरिग्रहः । यथा तस्य असौ देहपरिणामो जीवप्रयोगविनिर्वृत्तशक्तिः आविश्चकास्ति; एवमङ्गारादीनामपि प्रतिविशिष्टा प्रकाशादिशक्तिरनुमीयते जीवप्रयोगविशेषाविर्भाविता इति । यथा वा ज्वरोष्मा जीवप्र योगं नातिवर्तते, जीवाधिष्ठितशरीरकानुपात्येव भवति एषा एव उपमा आग्नेयजन्तूनाम्, न च मृता ज्वरिणः क्वचिदुपलभ्यन्ते; एवमन्वय-व्यतिरेकाभ्यां अग्नेः सचित्तता मुक्तकंग्रन्थोपपत्तिमुखेन प्रतिपादिता । सम्प्रति प्रयोगमारोप्यते अयमेवार्थ:जीवशरीराणि अङ्गारादयः, छेद्यत्वादिहेतुगणान्वितत्वात्, सास्ना-विषाणादिसङ्घातवत् । तथा आत्मसंयोगाविर्भूतोऽङ्गारादीनां प्रकाशपरिणामः, शरीरस्थत्वात्, खद्योतकदेहपरिणामवत् । तथा आत्मसम्प्रयोगपूर्वको अङ्गारादीनामूष्मा, शरीरस्थत्वात्, ज्वरोष्मवत् । न चादित्यादिभिः
टि० १. समुपहता ख ॥ २. ०न द्विधा क घ ङ॥ ३. ०प्रमुखयोनिशत० ख ॥ ४. व जह उण्हा झ । वा जउम्हा ज । य जह उम्हा ठ ।। ५. तओवमा क विना । ततोवमा ञ ॥ ६. मुक्तकलग्रन्थो० च ॥
वि०टि० + "आचारे-शस्त्रपरिज्ञाया उद्दे० मुक्तकं मुत्कलम्" स०वि०प० । "मुक्व(क्त )क इति मुक्व(त्क)लः, वृत्तिकारेणेति शेषः" जै०वि०प० । अयमत्राशयः- ये आदेशाः नियुक्तिकृद्-भाष्यकृदादिभिः दर्शिताः, न च तेषां पाठ: क्वापि अंगोपाङ्गेषु उपलभ्यते ते मुक्तकव्याकरणतया उच्यन्ते, यथा-मरुदेवायाः अत्यन्तस्थावरत्वेन सिद्धत्वम्, कुरुट-उत्कुरुटयो: दृष्टान्तमित्यादि एवं अत्रापि ज्ञेयम् - इति वृत्तिकारस्याशयो भाति । एतदर्थ दृश्यतां आव०नि० पत्र ४६५, आव०चू० प्रथमभाग पत्र ६०१, बृ०क०भा० पीठिका पृ ४४-४५ टिप्पणि-६ ।।
९३