________________
बाहल्य
आयाम
कपाट:
[श्रु०१। अ०१। उ०४। नि०११८] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् मुर्मुरः, एते बादरा अग्निभेदाः पञ्च भवन्तीति ॥११८॥
एते च बादराग्नयः स्वस्थानाङ्गीकरणाद् मनुष्यक्षेत्रे अर्द्धतृतीयेषु द्वीप-समुद्रेषु अपि अव्याघातेन पञ्चदशसु कर्मभूमिषु व्याघाते सति पञ्चसु विदेहेषु, नान्यत्र, उपपाताङ्गीकरणेन लोकासङ्ख्येयभागवर्तिनः । तथा च आगमः
"उववाएणं दोसुद्धकवाडेसु तिरियलोयतट्टे य ।" [ प्रज्ञा०सू०२।१५५ ]
अस्य अयमर्थः-अर्द्धतृतीयद्वीपसमुद्रबाहल्ये पूर्वाऽपरदक्षिणोत्तरस्वयम्भूरमणपर्यन्ताऽऽयते ऊर्ध्वाऽधोलोकप्रमाणे
__ अर्द्धतृतीयद्विपप्रमाणं कपाटे, तयोः प्रविष्टा बादराग्निषु
पूर्व-पश्चिम
एकरज्ज्वात्मकं उत्पद्यमानकाः तद्व्यपदेशं लभन्ते, तथा तिरियलोयतट्टे य त्ति तिर्यग्लोकस्थालके च व्यवस्थितो बादराग्निषु उत्पद्यमानो बादराग्निव्यपदेशभाग भवति । अन्ये तु व्याचक्षते- तयोः
दक्षिणोत्तरतिष्ठतीति तत्स्थः, तिर्यग्लोकश्चासौ तत्स्थश्च तिर्यग्लोक-तत्स्थः, तत्र च स्थित उत्पित्सुः बादराग्निव्यपदेशमासादयति । अस्मिश्च व्याख्याने कपाटान्तर्गत एव गृह्यते, स च द्वयोः उर्ध्वकपाटयोः इति अनेनैव उपात्त इति
चतुर्दशरज्जुप्रमाणं तद्व्याख्यानाभिप्रायं न विद्मः ।
बादराग्निकायस्य उपपातक्षेत्रम् कपाटस्थापना चेयम्
कपाट
उच्चस्त्वं
टि० १. ०स्थानके च ॥
वि०टि० # "से किं तं बादरतेउकाइया? बादरतेउकाइया अणेगविहा पण्णत्ता, तं जहा-इंगाले जाला मुम्मुरे अच्ची अलाए सुद्धागणी उक्का विज्जू असणी णिग्घाए संघरिससमुट्ठिए सूरकंतमणिणिस्सिए, जे यावन्ने तहप्पगारे ॥" (प्रज्ञा० प० २९ सू० १७) इति प्रज्ञापनायामनेकविधत्वमुपलभ्यते तेजस्कायस्य, तथोत्तराध्ययनेषु जीवाऽजीवविभक्त्याख्ये षट्त्रिंशत्तमेऽध्ययने-बायरा जे उ पज्जत्ता, णेगहा ते वियाहिया । इंगाले मुम्मुरे अगणी, अच्चि जाला तहेव य ॥१०९॥ उक्का विज्जू य बोधव्वा णेगहा एवमायओ ।११० ॥ "व्याघात इति सुसमादौ स्निग्धत्वादिना भरतादौ न भवति" जै०वि०प० ॥