________________
॥ चतुर्थः तेजउद्देशकः ॥
उक्तस्तृतीयोद्देशकः । साम्प्रतं चतुर्थ आख्यायते । अस्य च अयं अभिसम्बन्धः– इह अनन्तरोद्देशके मुनित्वप्रतिपत्तये अप्कायः प्रतिपादितः, तद् अधुना तदर्थमेव क्रमायाततेजस्कायप्रतिपादनाय अयमुद्देशकः समारभ्यते । तस्य च उपक्रमादीनि चत्वारि अनुयोगद्वाराणि वाच्यानि तावद् यावद् नामनिष्पन्ने निक्षेपे तेजउद्देशक इति नाम । तत्र तेजसो निक्षेपादीनि द्वाराणि वाच्यानि । अत्र च पृथिवीविकल्पतुल्यत्वात् केषाञ्चिदतिदेशो द्वाराणाम्, अपरेषां तद्विलक्षणत्वाद् अपोद्धार इति । एतद् द्वयमुररीकृत्य निर्युक्तिकृद्
गाथामाह
[नि०]
तेस्स वीत्यादि । तेजसो ऽपि = अग्नेरपि द्वाराणि निक्षेपादीनि यानि पृथिव्याः समधिगमे अभिहितानि तान्येव वाच्यानि । अपवादं दर्शयितुमाह- नानात्वं=भेदो, विधान परिमाण- उपभोग- शस्त्रेषु । तुः अवधारणे, विधानादिष्वेव नानात्वम्, नान्यत्र इति । चशब्दाद् लक्षणद्वारपरिग्रहः ॥ ११६॥
यथाप्रतिज्ञातनिर्वहणार्थं आदिद्वारव्याचिख्यासया आह
दुविहा उ तेजीवा सुहुमा तह बायरा य लोयम्मि । सुहुमा य सव्वलोए पंचेव य बायरविहाणा ॥११७॥ दुवित्यादि । स्पष्ट | ११७|| बादरपञ्चभेदप्रतिपादनाय आह
[नि० ]
तेउस्स ेवि दाराइं ताइं जाईं हवंति पुढवीए । णाणत्ती उ विहाणे परिमाणुवभोग - सत्थे य ॥ ११६॥
[नि० ]
इंगाल अगणि अच्ची जाला तह मुम्मुरे य बोधव्वे । बायरतेउविहाणा पंचविहा वण्णिया एए ॥११८॥ द्वारं ॥
इंगालेत्यादि । दग्धेन्धनो विगतधूमज्वालः अङ्गारः इन्धनस्थप्लोषक्रियाविष्टरूपः, तथा विद्युद्-उल्का-ऽशनिसङ्घर्षसमुत्थितः सूर्यमणिसंसृतादिरूपश्च अग्निः, दाह्यप्रतिबद्धो ज्वालाविशेषः अर्चिः, ज्वाला छिन्नमूला अनङ्गारप्रतिबद्धा, प्रविरलाग्निकणानुविद्धं भस्म
टि० १. आरभ्यते कप्रति विना ॥ २. व छ ॥ ३. ए ( य ) ख ॥। ४. समभिगमे ख ॥ ५. य क- ठवर्जितप्रतिषु ॥ ६. ०ला न अङ्गार० क ।।
९१