________________
अकुशलप्रवृत्तिनिरोधो भावशौचम् [श्रु०१। अ०१ । उ०३ । सू०३१]
मण्डनवत्। कामाङ्गता च सर्वजनप्रसिद्धा, तथा चोक्तम्—
" स्नानं मद-दर्पकरं, कामाङ्गं प्रथमं स्मृतम् । तस्मात् कामं परित्यज्य, नैव स्नान्ति दमे रताः ॥ " [
]
शौचार्थोऽपि न oपुष्कलः, वारिणा बाह्यमलापनयनमात्रत्वात्, न हि अन्तर्व्यवस्थितकर्मर्मलक्षालनसमर्थं वारि दृष्टम् । तस्मात् शरीर - वाङ् - मनसां अकुशलप्रवृत्तिनिरोधो भावशौचमेव कर्मक्षयाय अलम् । तच्च वारिसाध्यं न भवति, कुतः ? अन्वयव्यतिरेक-समधिगम्यत्वात् सर्वभावानाम्, न हि मत्स्यादयः तत्र स्थिता मत्स्यादित्वकर्मक्षयभाक्त्वेन अभ्युपगम्यन्ते, विना च वारिणा महर्षयो विचित्रतपोभिः कर्म क्षपयन्तीति । अतः स्थितमेतत् — तत्समयो नै निश्चयाय प्रभवतीति ॥२८॥
तदेवं निःसपत्नं अपां जीवत्वं प्रतिपाद्य तत्प्रवृत्ति-निवृत्तिविकल्पफलप्रदर्शनद्वारेण उपसञ्जिहीर्षुः सकलमुद्देशार्थमाह
[सू०] एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति ॥२९॥ [सू० ] तं परिण्णाय मेहावी णेव सयं उदयसत्थं समारभेज्जा, णेवऽण्णेहिं उदयसत्थं समारभावेज्जा, उदयसत्थं समारभंते वि अण्णे ण समणुजाणेज्जा ॥३०॥
[सू० ] जस्सेते उदयसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णातकम्मे त्ति बेमि ॥ ३१ ॥
एत्थ सत्थमित्यादि यावत् से हु मुणी परिण्णायकम्मे त्ति बेमि । एतस्मिन् अप्काये शस्त्रं द्रव्य-भावरूपं समारभमाणस्य इत्येते समारम्भा बन्धकारणत्वेन अपरिज्ञाता भवन्ति । अत्रैव अप्काये शस्त्रं असमारभमाणस्य इत्येते आरम्भा ज्ञपरिज्ञया परिज्ञाता भवन्ति, प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति । तामेव प्रत्याख्यानपरिज्ञां
टि० १. ०मलप्रक्षालन० घ ङ च ॥ २. स्थिताः कर्मक्षयभावेनाभ्युप० ग च ॥ ३. नो ग ॥
४. समारम्भावध-बन्ध० च ॥
वि०टि० क् “पुष्कलः इति मुक्कलः " जै०वि०प० ॥
८९