________________
महासत्त्वैः कृतपूर्वो मार्गः [श्रु०१। अ०१। उ०३। सू०२२] देशशङ्का च । तत्र सर्वशङ्का किमस्ति आहतो मार्गो न वा ? इति । देशशङ्का तु किं विद्यन्ते अप्कायादयो जीवविशेषाः प्रवचने अभिहितत्वात्, प्रस्पष्टचेतनात्मलिङ्गाभावाद् न विद्यन्ते इति वा ? इति एवमादिकां आरेकां विहाय सम्पूर्णानगारगुणान् पालयेत् ।
यदि वा विश्रोतांसि द्रव्य-भावभेदाद् द्विधा। तत्र द्रव्यविश्रोतांसि नद्यादिश्रोतसां प्रतीपगमनानि । भावविश्रोतांसि तु मोक्षं प्रति सम्यग्दर्शनादिश्रोतसा प्रस्थितानां विरूपाणि प्रतिकूलानि गमनानि भावविश्रोतांसि, तानि विहाय सम्पूर्णानगारगुणभाग् भवति, श्रद्धां च अनुपालयेदिति । पाठान्तरं वा 'विजहित्ता पुव्वसंजोगं' पूर्वसंयोगः माता-पित्रादिभिः, अस्य चोपलक्षणार्थत्वात् पश्चात्संयोगोऽपि श्वसुरादिकृतो ग्राह्यः, तं विहाय परित्यज्य श्रद्धामनुपालयेदिति मीलनीयम् ॥२०॥
तत्र यस्य अयमुपदेशो दीयते यथा 'विहाय विश्रोतांसि तदनु श्रद्धानुपालनं कार्यम्' स एव अभिधीयते-न केवलं भवान् एव अपूर्वं इदमनुष्ठानं एवंविधं करिष्यति, किन्तु अन्यैरपि महासत्त्वैः कृतपूर्वमिति दर्शयितुमाह[ सू०] पणया वीरा महावीहिं ॥२१॥
प्रणता:=प्रह्वाः, वीराः परीषह-उपसर्ग-कषायसेनाविजयात्, वीथि:=पन्थाः, महांश्चासौ वीथिश्च महावीथिः सम्यग्दर्शनादिरूपो मोक्षमार्गो जिनेन्द्रचन्द्रादिभिः सत्पुरुषैः दक्षैः प्रहतः, तं प्रति प्रह्वाः वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति । ततश्च उत्तमपुरुषप्रहतोऽयं मार्ग इति प्रदर्श्य तज्जनितमार्गविश्रम्भो विनेयः संयमानुष्ठाने सुखेनैव प्रवर्तयिष्यते ॥२१॥
उपदेशान्तरमाह-लोगं चेत्यादि । अथवा यद्यपि भवतो मतिर्न क्रमते अप्कायजीवविषये असंस्कृतत्वात्, तथापि भगवदाज्ञा इयमिति श्रद्धातव्यमित्याह[सू०२२] लोगं च आणाए अभिसमेच्चा अकुतोभयं ।
___ लोगं च आणाए अभिसमेच्च अकओभयं । अत्राधिकृतत्वाद् अप्कायलोको लोकशब्देन अभिधीयते । अप्कायलोकं चशब्दाद् अन्यांश्च पदार्थान् आज्ञयामौनीन्द्रवचनेन आभिमुख्येन सम्यग् इत्वा-ज्ञात्वा यथा अप्कायादयो जीवा इत्यवगम्य, न
टि० १. मार्ग उत न ? इति । ख च ॥ २. जीवा विशेष्यप्रवचने च ॥ ३. ०कां आशङ्कां ख ॥ ४. ०य त्यक्त्वा श्रद्धा० ख ग च ॥ ५. दक्षैः इति कप्रति विमुच्यान्यत्र न वर्तते ॥ ६. मतिर्नाक्रमते क ॥ ७. ०न्द्रप्रवचनेन घ ङ च ॥ ८. इत्येवमभिगम्य ख । इत्येवमवगम्य च ॥