________________
[श्रु०१ । अ०१ । उ०३ । सू०२०] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
“सोही य उज्जुभूयस्स, धम्मो सुद्धस्स चिट्ठइ" [ उत्तरा०३।१२] त्ति ॥१९॥ तदेवं असौ उद्धृतसकलमायावल्लीवितानः किं कुर्यात् ? इत्याह
८०
[ सू० ] जाए सद्धाए णिक्खंतो तमेव अणुपालिया विजहित्ता विसोत्तियं ॥२०॥ जाए सद्धाए इत्यादि । यया श्रद्धया प्रवर्धमानसेंयमस्थानकण्डकरूपया निष्क्रान्तः प्रव्रज्यां गृहीतवान् तामेव श्रद्धां अश्रान्तो यावज्जीवं अनुपालयेत्, रक्षेदित्यर्थः । प्रव्रज्याकाले च प्रायशः प्रवृद्धपरिणाम एव प्रव्रजति, पश्चात् तु संयमश्रेणीं प्रतिपन्नो वर्धमानपरिणामो वा हीयमानपरिणामो वा अवस्थितपरिणामो वेति । तत्र वृद्धिकालो हानिकालो वा समयाद्युत्कर्षेण अन्तर्मौहूर्तिकः, नातः परं सङ्क्लेश - विशुद्धयद्धे भवतः, उक्तं च
"नान्तर्मुहूर्तकालमतिवृत्य शक्यं हि जगति सङ्क्लेष्टुम् । नापि विशोद्धुं शक्यं प्रत्यक्षो ह्यात्मनः सोऽर्थः ॥
उपयोगद्वयपरिवृत्तिः सा निर्हेतुका स्वभावत्वात् । आत्मप्रत्यक्षो हि स भावो व्यर्थाऽत्र हेतूक्ति: ॥ [
]
अवस्थितकालश्च द्वयोः वृद्धि - हानिलक्षणयोः यवमध्य - वज्रमध्ययोरष्टौ समयाः, ततः ऊर्द्धमवश्यं पातात् । अयं च वृद्धि - हानि-अवस्थितरूपः परिणामः केवलिनां निश्चयेन गम्यः, न च्छद्मस्थानामिति । यद्यपि च प्रव्रज्याभिगमोत्तरकालं श्रुतसागरमवगाहमानः संवेगवैराग्य-भावनाभावितान्तरात्मा कश्चित् प्रवर्धमानमेव परिणामं भजते, तथा चोक्तम्
""
'जह जह सुयमवगाहइ अइसयरसपसरसंजुयमपुव्वं ।
तह तह पल्हाइ मुणी नवनवसंवेगसद्धाओ ॥" [ बृ०क० भा०११६७]
तथापि स्तोक एव तादृक्, बहवश्च परिपतन्ति, अतो अभिधीयते - तां एव अनुपालयेदिति । कथं पुनः कृत्वा श्रद्धामनुपालयेत् ? इत्याह
विजहेत्यादि । विहाय = परित्यज्य विश्रोतसिकां शङ्काम् । सा च द्विधा - सर्वशङ्का
टि० १. वड्डई इत्यादि । तदेव० च । चिट्ठइत्यादि । तदेव० ख ॥। २. ० संयमानुष्ठानकरणरूपया ग । ०संयमानुष्ठानकण्डकरूपया घ । ०संयमस्थानरूपया ख ॥
वि०टि० = " वृद्धि हानिलक्षणयोः इति ज[ हा ?]४ ५ ६ ७ ८ ७६५४३२ वृद्धिः ; हानिकालोऽप्ययमेव नवरं व्यत्ययेन" जै०वि०प० ॥