________________
[श्रु०१ । अ०१ । उ०३ । सू०२२]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
विद्यते कुतश्चिद्धेतोः केनापि प्रकारेण जन्तूनां भयं यस्मात् सः अकुतोभयः= संयमः तम्, अनुपालयेदिति सम्बन्धः । यद्वा अकुतोभयः = अप्कायलोको, यतः असौ न कुतश्चिद् भयमिच्छति, मरणभीरुत्वात् । तम् आज्ञया अभिसमेत्य अनुपालयेद् रक्षेदित्यर्थः । अप्कायलोकमाज्ञया अभिसमेत्य यत् कर्तव्यं तदाह
से बेमि—णेव सयं लोगं अब्भाइक्खेज्जा, णेव अत्ताणं अब्भाइक्खेज्जा । जे लोगं अब्भाइक्खति से अत्ताणं अब्भाइक्खति, जे अत्ताणं अब्भाइक्खति से लोगं अब्भाइक्खति ॥२२॥
I
से बेमीत्यादि । सोऽहं ब्रवीमि सेशब्दस्य युष्मदर्थत्वात् त्वां वा ब्रवीमि । न स्वयम् आत्मना लोकः - अप्कायलोको अभ्याख्यातव्यः अभ्याख्यानं नाम असदभियोगः, यथा—अचौरं चौरमित्याह । इह तु जीवा न भवन्ति आपः केवलमुपकरणमात्रं घृततैलादिवत्, एषः असदभियोगः, हस्त्यादीनामपि जीवानामुपकरणत्वात् ।
स्यादारेका - ननु एतदेव अभ्याख्यानं यद् अजीवानां जीवत्वापादनम् ? ; नैतदस्ति, प्रसाधितमपां प्राक् सचेतनत्वम्, यथा ह्यस्य शरीरस्य अहंप्रत्ययादिभिः हेतुभिरधिष्ठातात्मा व्यतिरिक्तः प्राक् प्रसाधितः; एवमप्कायोऽपि अव्यक्तचेतनया सचेतन इति प्राक् प्रसाधितः, न च प्रसाधितस्य अभ्याख्यानं न्याय्यम् । अथापि स्यात् - 'आत्मनोऽपि शरीराधिष्ठातुः अभ्याख्यानं कर्तव्यम्', न च तत् क्रियमाणं घटामियर्तीति दर्शयति
'नेव अत्ताणं अब्भाइक्खेज्ज' । नैव आत्मानं शरीराधिष्ठातारं अहं प्रत्ययसिद्धं ज्ञानाभिन्नगुणप्रत्यक्षं प्रत्याचक्षीत = अपह्नुवीत । ननु चैतदेव कथमवसीयते शरीराधिष्ठाता आत्मा अस्तीति ? उच्यते - विस्मरणशीलो देवानांप्रियः ! उक्तमपि भाणयति, तथा हिआहृतं इदं शरीरं केनचिद् अभिसन्धिमता, कफ-रुधिरा -ऽङ्गोपाङ्गादिपरिणतेः, अन्नादिवत् । तथा उत्सृष्टमपि केनचिदभिसन्धिमता एव, आहृतत्वात्, अन्नमलवदिति । तथा न ज्ञानोपलब्धिपूर्वकः परिस्पन्दो भ्रान्तिरूपः, परिस्पन्दत्वात् त्वदीयवचनपरिस्पन्दवत् । तथा विद्यमानाधिष्ठातृव्यापारभाञ्जि इन्द्रियाणि, करणत्वात्, दात्रादिवत् । एवं कुतर्कमार्गानुसारिहेतुमालोच्छेदः स्याद्वादपरशुना कार्यः । अत एवंविधोपपत्तिसमधिगतं आत्मानं शुभाऽशुभफलभाजं न प्रत्याचक्षीत । एवं च सति यो हि अज्ञः कुतर्कतिमिरोपहतज्ञानचक्षुः
टि० १. भीतत्वात् ख ॥। २. दन्तमलवदिति च ॥
८२