________________
[श्रु०१। अ०१। उ०३। नि०११०] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् आक्षिपति-नाप्कायो जीवः, तल्लक्षणायोगात्, प्रश्रवणादिवदिति । अस्य हेतोः असिद्धतोद्भावनार्थं दृष्टान्तद्वारेण लक्षणमाह[नि०] जह हत्थिस्स सरीरं केललावत्थस्स अहणो[ ?ऽहणु ]ववन्नस्स ।
जह वोदगअंडस्स व एसुवमा आउजीवाणं ॥११०॥ दारा ॥ जहेत्यादि । यथा हस्तिनः शरीरं कललावस्थायां अधुनोत्पन्नस्य द्रवं चेतनं च दृष्टम् ; एवं अप्कायोऽपि इति । यथा वा उदकप्रधानं अण्डकं उदकाण्डकम् अधुनोत्पन्नमित्यर्थः, तन्मध्ये व्यवस्थितं रसमात्रं असञ्जातावयवं अनभिव्यक्तचञ्च्वादिप्रविभागं चेतनावद् दृष्टम् । एषा एव उपमा अब्जीवानामपि इति । हस्तिशरीरकललग्रहणं च महाकायत्वात् तद् बहु भवतीत्यतः सुखेन प्रतिपद्यते । अधुनोपपन्नग्रहणं सप्ताहपरिग्रहार्थम्, यतः सप्ताहमेव कललं भवति, परतस्तु अर्बुदादि । अण्डकेऽपि उदकग्रहणं एवमर्थमेव । प्रयोगश्चायम्-सचेतना आपः, शस्त्रानुपहतत्वे सति द्रवत्वात्, हस्तिशरीरोपादानभूतकललवत् । विशेषणोपादानात् प्रश्रवणादिव्युदासः । तथा सात्मकं तोयम्, अनुपहतद्रेवत्वात्, अण्डकमध्यस्थितकललवदिति । तथा आपो जीवशरीराणि, छेद्यत्वाद् भेद्यत्वाद् उत्क्षेप्यत्वाद् भोज्यत्वाद् भोग्यत्वाद् घेयत्वाद् रसनीयत्वात् स्पर्शनीयत्वात् दृश्यत्वाद् द्रव्यत्वाद्, एवं सर्वेऽपि शरीरधर्मा हेतुत्वेन उपन्यसनीयाः, गगनवर्जभूतधर्माश्च रूपवत्त्वा-ऽऽकारवत्त्वादयः । सर्वत्र चायं दृष्टान्तः-सास्ना-विषाणादिसङ्घातवदिति । ननु च रूपवत्त्वा-ऽऽकारवत्त्वादयो धर्माः परमाणुष्वपि दृष्टा इति अनैकान्तिकता ?; नैतदेवम्, यदत्र छेद्यत्वादि हेतुत्वेन उपन्यस्तं तत् सर्वं इन्द्रियव्यवहारानुपाति, न च तथा परमाणवः, अंतः कारणाद् अतीन्द्रियपरमाणुव्यवच्छेदः । यदि वा नैवासौ विपक्षः, सर्वस्य पुद्गलद्रव्यस्य द्रव्यशरीराभ्युपगमात्, जीवसहिताऽ-सहितत्वं तु विशेषः, उक्तं च
टि० १. तल्लक्षणरहितत्वात् ख च ॥ २. कललाकलियस्स अहु० छ ञ ॥ ३. होइ उदगंडगस्स य एसुवमा सव्वजीवाणं ख ठ ।....व तओवमा आउजी० छ । ....य तओवमा आउजी० ज झ । ...वि तयोवमा आउजी० ब ।। ४. ०प्कायेऽपीति क ॥ ५. ०द्रव्यत्वात् ख ग घ ।। ६.
स्थकलल० ख च ॥ ७. दृश्यद्रव्यत्वाद् क घ ॥ ८. द्रवत्वाद् च ॥ ९. ०यो भूतधर्माः ख ग च ॥ १०. अतः प्रकरणाद् कप्रतिमृते || ११. च घ ङ ॥
वि०टि० ० "उदकग्रहणमेव इति सप्ताह:परिग्रहार्थम्' जै०वि०प० ।। A 'शस्त्रानुपहतत्वमिति विशेषणम् ॥
७६