________________
अप्कायपरिमाणद्वारम्
[श्रु०१ । अ०१ । उ०३ । नि०१०९] हरतणुशब्देन अभिधीयते । एवमेते पञ्च बादराप्कायविधयो व्यावर्णिताः ॥ १०८ ॥
ननु च प्रज्ञापनायां बादराप्कायभेदा बहवः परिपठिताः, तद्यथा - करक-शीतउष्ण-क्षार-क्षत्र-कटु-अम्ल - लवण - वरुण - कालोद - पुष्कर - क्षीर - घृत- इक्षुरसादयः । कथं पुनस्तेषामत्र सङ्ग्रहः ? उच्यते - करकः तावत् कठिनत्वाद् हिमान्त:पाती, शेषाश्च स्पर्शरस-स्थान-वर्णमात्रभिन्नत्वाद् न शुद्धोदकमतिवर्तन्ते । यद्येवं प्रज्ञापनायां किमर्थोऽपरभेदानां पाठ: ?, उच्यते - स्त्री - बाल - मन्दबुद्ध्यादिप्रतिपत्त्यर्थमिति । इहापि कस्मान्न तदर्थं पाठः ? इति, उच्यते— प्रज्ञापनाध्ययनमुपाङ्गत्वाद् आर्षम्, तत्र च युक्तः सकलभेदोपन्यासः स्त्र्याद्यनुग्रहाय निर्युक्तयस्तु सूत्रार्थं पिण्डीकुर्वन्त्यः प्रवर्तन्त इत्यदोषः ।
ऐते बादराप्कायाः समासतो द्वेधा-पर्याप्तका अपर्याप्तकाश्च । तत्र अपर्याप्तका वर्णादीन् असम्प्राप्ताः । पर्याप्तकास्तु वर्ण- गन्ध-रस - स्पर्शादेशैः सहस्राग्रशो भिद्यन्ते । ततश्च सङ्ख्येयानि योनिप्रमुखानि शतसहस्राणि भवन्ति भेदानामिति अवगन्तव्यम् । संवृतयोनयश्च एते। सा च योनिः सचित्ता-ऽचित्त-मिश्रभेदात् त्रिधा, पुनश्च शीत-उष्ण- उभयभेदात् त्रिधैव । एवं गण्यमाना योनीनां सप्त लक्षा भवन्ति । प्ररूपणानन्तरं परिमाणद्वारमाह
[नि०]
जे बायरपज्जत्ता पयरस्स असंखभागमेत्ता ते ।
सेसा तिन्नि विरासी वीसं लोगा असंखेज्जा ॥ १०९ ॥ दा० ॥
जे बायरेत्यादि । ये बादराप्कायपर्याप्तका ते संवर्तितलोकप्रतरासङ्ख्येयभागवर्तिप्रदेशराशिपरिमाणाः । शेषाः तु त्रयोऽपि राशयः विष्वक् = पृथग् असङ्ख्येयलोकाकाशप्रदेशराशिपरिमाणा इति । विशेषश्चायम् — बादरपृथिवीकायपर्याप्तकेभ्यो बादराप्कायपर्याप्तका असङ्ख्येयगुणाः, बादरपृथ्वीकायापर्याप्तकेभ्यो बादराप्कायापर्याप्तका असङ्ख्येयगुणाः, सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माप्कायापर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः सूक्ष्माप्कायपर्याप्तका विशेषाधिकाः ॥१०९॥
साम्प्रतं परिमाणद्वारानन्तरं चशब्दसूचितं लक्षणद्वारमाह - जहेत्यादि । अथवा पर
टि० १. शेषास्तु ख ग च ।। २. त एते बा० कप्रतिमृते ।
वि०टि० ÷ से किं तं बादरआउकाइया ? बादरआउकाइया अणेगविहा पन्नत्ता, तं जहा उस्सा हिमए महिया करए हरतणुए सुद्धोदए सीतोदए उसिणोदए खारोदए खट्टोदए अंबिलोदए लवणोदए वारुणोदए खीरोदए घओदए खोतोदए रसोदए, जे यावन्ने तहप्पग्गारा ॥ (प्रज्ञा० प० २८ सू० १६) ||
७५