________________
॥ तृतीयो अप्कायोद्देशकः ॥ गतः पृथिव्युद्देशकः । साम्प्रतमप्कायोद्देशकः समारभ्यते । तेस्य च अयं अभिसम्बन्धः- इह अनन्तरोद्देशके पृथ्वीकायजीवाः प्रतिपादिताः, तद्वधे बन्धो विरतिश्च । साम्प्रतं क्रमायातस्य अप्कायस्य जीवत्वं तद्वधे बन्धो विरतिश्च प्रतिपाद्यते इति। अनेन सम्बन्धेन आयातस्य अस्योद्देशकस्य चत्वारि अनुयोगद्वाराणि वाच्यानि । तत्र नामनिष्पन्ने निक्षेपे अप्कायोद्देशकः । तत्र पृथिवीकायजीवस्वरूपसमधिगतये यानि नव निक्षेपादीनि द्वाराणि उक्तानि अप्कायेऽपि तान्येव समानतया अतिदेष्टुकामः कानिचिद् विशेषाभिधित्सया उद्धर्तुकामश्च नियुक्तिकारो गाथामाह[नि०] आउस्स वि दाराइं ताइं जाइं हवंति पुढवीए ।
___णाणत्ती उ विहाणे परिमाणुवभोग-सत्थे य ॥१०६॥ आउस्सेत्यादि । अप्कायस्यापि तानि एव द्वाराणि भवन्ति यानि पृथिव्याः प्रतिपादितानीति । नानात्वं भेदरूपं विधान-परिमाण-उपभोग-शस्त्रविषयं दृष्टव्यम् । चशब्दाद् लक्षणविषयं च । तुशब्दो अवधारणार्थः, एतद्गतमेव नानात्वम्, नान्यगतमिति ॥१०६॥ तत्र विधानं प्ररूपणा, तद्गतं नानात्वं दर्शयितुमाह[नि०] दुविहाँ य आउजीवा सुहुमा तह बायरा य लोयम्मि ।
सुहुमा य सव्वलोए पंचेव य बायरविहाणा ॥१०७॥ दुविहा येत्यादि । स्पष्टा ॥१०७॥ तत्र पञ्च बादरविधानानि दर्शयितुमाह[नि०] सुद्धोदए य उस्सा हिमे य महिया य हरतण चेव ।
बायर आउविहाणा पंचविहा वण्णिया एए ॥१०८॥ दारं ॥ __सुद्धोदयेत्यादि । शुद्धोदकं तडाग-समुद्र-नदी-हुदा-ऽवटादिगतं अवश्यायादिरहितमिति । अवश्यायः रजन्यां यः स्नेह: पतति । हिमं तु शिशिरसमये शीतपुद्गलसम्पर्काद् जलमेव कठिनीभूतमिति । गर्भमासादिषु सायं प्रातः वा धूमिकावपातो महिका इत्युच्यते । वर्षा-शरत्कालयोः हरिताङ्करमस्तकस्थितजलबिन्दुः भूमिस्नेहसम्पर्कोद्भूतो
टि० १. प्रारभ्यते ख ग च ।। २. अस्य ग ॥ ३. ०समभिगतये ख ॥ ४. ०या निर्देष्टकामः च ५. य ख ॥ ६. ०णार्थे एत० च ॥ ७. ०हा आउज्जीवा क ठ । ०हा इहाऽऽउजीवा ख ॥ ८.
॥
७४