________________
पृथिवीदण्डविरतो मुनिः [श्रु०१। अ०१। उ०२। सू०१८] प्रत्याख्यानपरिज्ञया च परिहता भवन्ति, हुः अवधारणे, स एव मुनिः द्विविधयाऽपि परिज्ञया परिज्ञातं कर्म सावद्यानुष्ठानं अष्टप्रकारं वा कर्म येन स परिज्ञातकर्मा, नापर: शाक्यादिः, ब्रवीमि इति पूर्ववदिति ॥१८॥
॥ शस्त्रपरिझाया द्वितीय उद्देशकः समाप्तः ॥ छ ।
१. ०ज्ञायां ग घ ङ ॥ २. ०तीयोद्दे० ख च ।। ३. ०प्त इति ॥ च ।।
७३