________________
[श्रु०१। अ०१। उ०२। सू०१६] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् [सू०] एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाता भवंति ।
एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवंति ॥१६॥
एत्थ सत्थेत्यादि । अत्र-पृथ्वीकाये शस्त्रं द्रव्य-भावभिन्नम्, तत्र द्रव्यशस्त्रं स्वकाय-परकाय-उभयरूपम्, भावशस्त्रं तु असंयमो दुःप्रणिहितमनो-वाक्-कायलक्षणः । एतद् द्विविधमपि शस्त्रं समारभमाणस्य इत्येते खनन-कृष्याद्यात्मकाः समारम्भा बन्धहेतुत्वेन अपरिज्ञाता:=अविदिता भवन्ति । एतद्विपरीतस्य परिज्ञाता भवन्तीति दर्शयितुमाह
एत्थेत्यादि । अत्र-पृथिवीकाये, द्विविधमपि शस्त्रं असमारभमाणस्य अव्यापारयत इत्येते प्रागुक्ताः कर्मसमारम्भाः परिज्ञाता: विदिता भवन्ति ॥१६॥
अनेन च विरत्यधिकार: प्रतिपादितो भवतीति तामेव विरतिं स्वनामग्राहमाह[सू०] तं परिणाय मेहावी व सयं पुढविसत्थं समारभेज्जा, णेवऽण्णेहिं पुढविसत्थं समारभावेज्जा, णेवऽण्णे पुढविसत्थं समारभंते समणुजाणेज्जा ॥१७॥
तमित्यादि । तं पृथिवीकायसमारम्भे बन्धं परिज्ञाय असमारम्भे च अबन्धमिति, मेधावी-कुशलः एतत् कुर्यादिति दर्शयति-नैव पृथिवीशस्त्रं द्रव्य-भावभिन्नं समारभेत, नापि तद्विषयो अन्यैः समारम्भः कारयितव्यः, न च अन्यान् पृथिवीशस्त्रं समारभमाणान् समनुजानीयात् । एवं मनो-वाक्-काय-कर्मभिः अतीता-ऽनागतकालयोरपि आयोजनीयम् ॥१७॥ ततश्चैवं कृतनिवृत्तिः असौ मुनिरिति व्यपदिश्यते, न शेष इति दर्शयन् उपसञ्जिहीर्षुराह[ सू०] जस्सेते पुढविकम्मसमारंभा परिण्णाता भवंति से हु मुणी परिणायकम्मे त्ति बेमि ॥१८॥
जस्सेत्यादि । यस्य विदितपृथ्वीजीववेदनास्वरूपस्य, एते पृथ्वीविषयाः कर्मसमारम्भाः खनन-कृष्याद्यात्मकाः कर्मबन्धहेतुत्वेन परिज्ञाता भवन्ति ज्ञपरिज्ञया,
टि० १. ०ये द्विविधमपि शस्त्रं ख ॥ २. ०वशस्त्रम् क ॥ ३. अनागता-ऽतीतकाल० क घ ङ ॥ ४. ०या, तथा प्रत्या० ख ग च ॥
७२