________________
अन्धादिवत् पृथिव्यारपि वेदनाऽनुभवः [श्रु०१। अ०१। उ०२। सू०१५] २, अप्पेगे णासमब्भे २, अप्पेगे अच्छिमब्भे २, अप्पेगे भमुहमब्भे २, अप्पेगे णिडालमब्भे २, अप्पेगे सीसमब्भे २, अप्पेगे संपमारए, अप्पेगे उद्दवए ॥१५॥
से बेमीत्यादि । सोऽहं पृष्टो भवता पृथ्वीकायवेदनां ब्रवीमि । अथवा से इति तच्छब्दार्थे वर्तते, यत् त्वया पृष्टः तदहं ब्रवीमि । अपिशब्दः यथानामशब्दार्थे, यथा नाम कश्चित् जात्यन्धो बधिरो मूकः कुष्ठी पङ्गः अनभिनिर्वृत्तपाण्याद्यवयवविभागो मृगापुत्रवत् पूर्वकृताशुभकर्मोदयाद् हिता-ऽहित-प्राप्ति-परिहारविमुखो अतिकरुणां दशां प्राप्तः तमेवंविधं अन्धादिगुणोपेतं कश्चित् कुन्ताग्रेण अब्भे इति आभिन्द्यात्, तथाऽपरः कश्चिद् अन्धं आच्छिन्द्यात् । स च भिद्यमानाद्यवस्थायां न पश्यति, न शृणोति, मूकत्वाद् नोच्चैः रारटीति, किमेतावता तस्य वेदनाऽभावो जीवाभावो वा शक्यो विज्ञातुम् ? एवं पृथ्वीजीवा अपि अव्यक्तचेतना जात्यन्ध-बधिर-मूक-पङ्ग्वादिगुणोपेतपुरुषवदिति ।
यथा वा पञ्चेन्द्रियाणां परिस्पष्टचेतनानां अप्पेगे पायमब्भे इति यथा नाम कश्चित् पादमाभिन्द्याद् आच्छिन्द्याद् वा इति । एवं गुल्फादिषु अपि आयोजनीयमिति । एवं जङ्घा-जानु-ऊरु-कटी-नाभि-उदर-पार्श्व-पृष्ठ-उरो-हृदय-स्तन-स्कन्ध-बाहु-हस्ताऽङ्गलि-नख-ग्रीवा-हनुक-ओष्ठ-(दन्त-)जिह्वा-तालु-गल-गण्ड-कर्ण-नासिका-ऽक्षिभ्रू-ललाट-शिरःप्रभृतिष्ववयवेषु भिद्यमानेषु छिद्यमानेषु वा वेदनोत्पत्तिः लक्ष्यते । एवं एषां उत्कटमोहा-ऽज्ञानभाजां स्त्यानद्धर्युदयाद् अव्यक्तचेतनानां अव्यक्तैव वेदना भवतीति ग्राह्यम् ।
अत्रैव दृष्टान्तान्तरं दर्शयितुमाह
अप्पेगे संपमारए अप्पेगे उद्दवए । यथा नाम कश्चित् सम्-एकीभावेन प्रकर्षण प्राणानां मारणम् अव्यक्तत्वापादनं कस्यचित् कुर्यात्, मूर्छामापादयेदित्यर्थः । तथाऽवस्थं च यथा नाम कश्चिद् अपद्रापयेत् प्राणेभ्यो व्यपरोपयेत् । न च असौ तां वेदनां स्फुटं अनुभवति, अस्ति चाव्यक्ता तस्यासौ वेदनेति । एवं पृथिवीजीवानामपि दृष्टव्यमिति ॥१५।।
पृथिवीकायिकानां जीवत्वं प्रसाध्य तथा नानाविधशस्त्रसम्पाते वेदनां च आविर्भाव्य अधुना तद्वधे बन्धं दर्शयितुमाह
टि० १. यदि वा ख घ ङ च ॥ २. ०ति दर्शयति । एवं कप्रत्या विना ॥ ३. ०ष्ठ-तालु-जिह्वागल० क ग ॥ ४. ०नद्धाधुदया० ग च ॥ ५. ०मासाद० क ॥ ६. ०द्रावयेत् ख ॥ ७. ०नां अनुभ० ख ॥ ८. चेतनेति ॥ ख च ॥ ९. ०न्धं प्रतिपादयन्नाह घ ङ च ॥
७१