SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०१। उ०२ । सू०१४] तथैष एव मरणहेतुत्वाद् मारः आयुष्ककर्मक्षयलक्षणः । तथैष एव नरकहेतुत्वाद् नरकः सीमन्तकादिः भूभागः, अनेन च असातावेदनीयमुपात्तं भवति । कथं पुनः एकप्राणिव्यापादनप्रवृत्तौ अष्टविधकर्मबन्धं करोति ? इति उच्यते - मार्यमाणजन्तुज्ञानावरोधित्वाद् ज्ञानावरणीयं बध्नाति एवं अन्यत्रापि आयोजनीयमिति । अन्यदपि तेषां ज्ञातं भवतीति दर्शयितुमाह इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं पुढविकम्मसमारंभेणं पुढविसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति ॥१४॥ वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् इच्चत्थमित्यादि । इत्येवमर्थम् आहारभूषणोपकरणार्थं तथा परिवन्दन - माननपूजनार्थं दुःखप्रतिघातहेतुं च गृद्धः = मूच्छितः, लोक: = प्राणिगणः । एवंविधेऽपि अतिदुरितनिचयविपाकफले पृथ्वीकायसमारम्भे अज्ञानवशाद् मूच्छितस्तु एतद् विधत्त इति दर्शयति— यद्=यस्माद्, इमं पृथ्वीकायं, विरूपरूपैः शस्त्रैः पृथ्वीकायं समारभमाणो हिनस्ति, पृथ्वीकायसमारम्भेण च पृथिव्येव शस्त्रं स्वकायादेः पृथिव्यां वा शस्त्रं हलकुद्दालादि, तत् समारभते, पृथिवीशस्त्रं समारभमाणः च अन्यान् अनेकरूपान् प्राणिनः द्वीन्द्रियादीन् विविधं हिनस्तीति ॥१४॥ स्यादारेका- ये हि न पश्यन्ति न शृण्वन्ति न जिघ्रन्ति न गच्छन्ति कथं पुनस्ते वेदनां अनुभवन्तीति ग्रहीतव्यम् ?, अमुष्यार्थस्य प्रसिद्धये दृष्टान्तमाह[सू०] से बेमि-अप्पेगे अंधमब्भे अप्पेगे अंधमच्छे, अप्पेगे पादमब्भे २, अप्पेगे गुप्फमब्भे २, अप्पेगे जंघमब्भे २, अप्पेगे जाणुमब्भे २, अप्पेगे ऊरुमब्भे २, अप्पेगे कडिमब्भे २, अप्पेगे णाभिमब्भे २, अप्पेगे उदरमब्भे २, अप्पेगे पासमब्भे २, अप्पेगे पिट्ठिमब्भे २, अप्पेगे उरमब्भे २, अप्पेगे हिययमब्भे २, अप्पेगे थणमब्भे २, अप्पेगे खंधमब्भे २, अप्पेगे बाहुमब्भे २, अप्पेगे हत्थमब्भे २, अप्पेगे अंगुलिमब्भे २, अप्पेगे णहमब्भे २, अप्पेगे गीवमब्भे २, अप्पेगे हम २, अप्पे होट्ठमब्भे २, अप्पेगे दंतमब्भे २, अप्पेगे जिब्भमब्भे २, अप्पेगे तालुमब्भे २, अप्पेगे गलमब्भे २, अप्पेगे गंडमब्भे २, अप्पेगे कण्णमब्भे टि० १. पृथिवीकर्म समा० क - खप्रती ऋतेऽन्यत्र ॥ २. पृथिवीकर्मसमा० ख घ च ॥ ७०
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy