________________
असङ्ख्येयजीवरूपा पृथिवी [श्रु०१। अ०१ । उ०२ । सू०१२] विषयकषायादिभिरार्तेः अपरस्तु कायजीर्णः कश्चिद् दुःखसम्बोधः तथाऽपरो विशिष्टज्ञानरहितः, एते सर्वेऽपि आतुरा विषय - जीर्णेदेहादिभिः सुखाप्तये अस्मिन् पृथिवीकायलोके विषयभूते पृथिवीकायं नानाविधैरुपायैः परितापयन्ति = पीडयन्तीति सूत्रार्थः ॥१०॥
ननु च एकदेवताविशेषावस्थिता पृथिवीति शक्यं प्रतिपत्तुम्, न पुनरसङ्ख्येयजीवसङ्घातरूपा इति, एतत् परिहर्तुकाम आह—
[सू०] संति पाणा पुढो सिता ॥११॥
संतीत्यादि । सन्ति-विद्यन्ते, प्राणाः सत्त्वाः, पृथक् = पृथग्भावेन अङ्गुलाऽसङ्ख्येयभागस्वदेहावगाहनया पृथिव्याश्रिताः, सिता वा सम्बद्धा इत्यर्थः । अनेन तत् कथयति— न एकदेवता पृथिवी, अपि तु प्रत्येकशरीरपृथिवीकायात्मिका इति । तदेवं सचेतनत्वं अनेकजीवाधिष्ठितत्वं च पृथिव्या आविष्कृतं भवतीति ॥११॥
एतच्च ज्ञात्वा तदारम्भनिवृत्तान् दर्शयितुमाह
[सू०] लज्जमाणा पुढो पास ।
लज्जमाणा पुढो पास त्ति । लज्जा द्विविधा - लौकिकी लोकोत्तरा च । तत्र लौकिकी स्नुषा - सुभटादेः श्वशुर - सङ्ग्रामविषया, लोकोत्तरा सप्तदशप्रकारः संयमः, तदुक्तम्–‘‘लज्जा दया संजम बंभचेरमि" [ दशवै०९।१।१३]त्यादि । लज्जमाना: संयमानुष्ठानपराः, यदि वा पृथिवीकायसमारम्भरूपाद् असंयमानुष्ठाद् लज्जमानाः, पृथग् इति प्रत्यक्षज्ञानिनः परोक्षज्ञानिनश्च, अतस्तान् लज्जमानान् पश्य इत्यनेन शिष्यस्य कुशलानुष्ठानप्रवृत्तिविषयः प्रदर्शितो भवतीति ।
कुतीर्थिकास्तु अन्यथावादिनो अन्यथाकारिण इति दर्शयितुमाह
'अणगारा मो' त्ति एगे पवयमाणा, जमिणं विरूवरूवेहिं सत्थे हिं पुढविकम्मसमारंभेणं पुढविसत्थं समारंभमाणे अणेगरूवे पाणे विहिंसति
॥१२॥
अणगारा इत्यादि । न विद्यते अगारं गृहं ऐषां इति अनगाराः, 'यतयः स्मो
टि० १. ०र्तः कश्चित् तु कायपरिजीर्णः अपरो दुःसम्बोधः ख घ ङ च ॥ २. ०र्णभेदा देहा० च ॥। ३. ०श्रिता वा सि० ख ॥। ४. संजमो ग घ ॥ ५. एषां ते अन० क-गप्रती ऋते ॥
६७