________________
[श्रु०१।०१।०२।सू०१३] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् वयम्' इत्येवं प्रकर्षेण वदन्तः प्रवदन्त इति, एके शाक्यादयो ग्राह्याः । ते च 'वयमेव जन्तुरक्षणपराः क्षपितकषाया-ऽज्ञानतिमिराः' इति एवमादि प्रतिज्ञामात्रं अनर्थकं आरटन्ति ।
यथा कश्चिद् अत्यन्तशुचिः बोद्रः चतुःषष्टिमृत्तिकास्नायी गोशवस्य अशुचितया परित्यागं विधाय पुनः कर्मकरवाक्यात् चर्मा-ऽस्थि-पिशित-स्नाय्वादेः यथास्वं उपयोगार्थं सङ्ग्रहं कारितवान् । तथा च तेन शुच्यभिमानमुद्वहताऽपि किं तस्य परित्यक्तम् ?; एवमेते अपि शााक्यादयो अनगारवादं उद्वहन्ति, न चानगारगुणेषु मनागपि वर्तन्ते, न चे गृहस्थचर्यां मनागपि अतिलङ्घयन्तीति दर्शयति
___ यद्-यस्माद्, इमम् इति सर्वजनप्रत्यक्षं पृथिवीकायं, विरूपरूपैः नानाप्रकारैः शस्त्रैः हल-कुद्दाल-खनित्रादिभिः पृथिव्याश्रयं कर्म-क्रियां समारभमाणा विहिंसन्ति । तथा अनेन च पृथ्वीकर्मसमारम्भेण पृथ्वीशस्त्रं समारभमाणो व्यापारयन् पृथिवीकार्य नानाविधैः शस्त्रैः व्यापादयन् अनेकरूपान् तदाश्रितान् उदक-वनस्पत्यादीन् विविधं हिनस्ति नानाविधैः उपायैः व्यापादयति इत्यर्थः ॥१२॥
एवं शाक्यादीनां पार्थिवजन्तुवैरिणां अयतित्वं प्रतिपाद्य साम्प्रतं सुखाभिलाषितया कृत-कारिता-ऽनुमतिभिः मनो-वाक्-कायलक्षणां प्रवृत्तिं दर्शयितुमाह[सू०] तत्थ खलु भगवता परिण्णा पवेदिता । इमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाए जाती-मरण-मोयणाए दुक्खपडिघातहेउं से सयमेव पुढविसत्थं समारंभति अण्णेहिं वा पुढविसत्थं समारंभावेति अण्णे वा पुढविसत्थं समारंभंते समणुजाणति ।
तत्थेत्यादि । तत्र पृथिवीकायसमारम्भे, खलुशब्दः वाक्यालङ्कारे, भगवता श्रीवर्धमानस्वामिना, परिज्ञानं परिज्ञा, सा प्रवेदिता इति । इदमुक्तं भवति-भगवता इदमाख्यातं यथा ऐभिः वक्ष्यमाणैः कारणैः कृत-कारिता-ऽनुमतिभिः सुखैषिणः पृथ्वीकार्य समारभन्ते । तानि चामूनि
टि० १. ०पभोगा० च ॥ २. वा घ च ॥ ३. ०यन्तीत्यर्थः क ख ॥ ४. ०नां पृथिवीजन्तु० ख ॥ ५. सम्प्रति क-गप्रती ऋते ॥ ६. एभिः का० ख ॥
वि०टि० "बोद्रः इति मूर्खः" जै०वि०प० ॥ * टीकाकृदभिप्रायेण ....विरूवरूवेहिं सत्थेहिं पुढविकम्म समारभमाणा विहिंसन्ति । पुढविकम्मसमारंभेण ....' पाठो ज्ञेयः; एवमग्रेऽपि अवगन्तव्यम् ।।
६८