________________
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
[श्रु०१। अ०१ । उ०२ । सू०१० ] औपशमिकादिप्रशस्तभावहीनो अव्यभिचारिमोक्षसाधनहीनो वेति । स च द्विधा द्रव्यभावभेदात् । तत्र सचित्तद्रव्यपरिद्यूनो जीर्णशरीरः स्थविरकः जीर्णवृक्षो वा, अचित्तद्रव्यपरिद्यूनो जीर्णपटादिः । भावपरिद्यून औदयिकभावोदयात् प्रशस्तज्ञानादिभावविकलः । कथं विकलः ? अनन्तगुणपरिहाण्या, तथा हि- पञ्च चतुः - त्रि-द्वि-एकेन्द्रियाः क्रमशो ज्ञानविकलाः । तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मनिगोदा अपर्याप्तकाः प्रथमसमयोत्पन्नाः, उक्तं
च
"सर्वनिकृष्टो जीवस्य दृष्ट उपयोग एव वीरेण । सूक्ष्मनिगोदापर्याप्तानां स भवति विज्ञेयः ॥ [
तस्मात् प्रभृति ज्ञानविवृद्धिर्दृष्टा जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रिय-वाङ्-मनो- दृग्भिः ॥" [
६६
]
]
स च विषय- कषायार्तः प्रशस्तज्ञानद्यूनः किमवस्थो भवति ? इति दर्शयति
दुस्सम्बोध इति । दुःखेन सम्बोध्यते - धर्मचरणे प्रतिपत्ति कार्यत इति दुस्सम्बोधो तार्यवदिति । यदि वा दुस्सम्बोधः यो बोधयितुं अशक्यः ब्रह्मदत्तवदिति । किमित्येवं ? यतः - अवियाणए त्ति विशिष्टावबोधरहितः ।
स चैवंविधः किं विदध्यात् ? इत्याह
अस्सि लोए पव्वहिए तत्थ तत्थ पुढो पास आतुरा परितावेंति ॥ १० ॥
अस्मिन् पृथिवीकायलोके प्रव्यथिते प्रकर्षेण व्यथिते, सर्वस्य आरम्भस्य तदाश्रयत्वादिति प्रकर्षार्थः, तत्तत्प्रयोजनतया खननादिभिः पीडिते नानाविधशस्त्रोद्भीते वा । "व्यथ भय-चलनयोः " [पा०धा०१।७६४] इति कृत्वा व्यथितं = भीतमिति । तत्थ तत्थ इति तेषु तेषु कृषि - खनन - गृहकरणादिषु पृथग् विभिन्नेषु कार्येषु उत्पन्नेषु पश्य इति विनेयस्य लोकाऽकार्यप्रवृत्तिः प्रदर्श्यते । सिद्धान्तशैल्या एकादेशेऽपि प्रकृते बह्वादेशो भवतीति आतुराः विषय - कषायादिभिः अस्मिन् पृथिवीकाये विषयभूते सामर्थ्यात् पृथिवीकायं परितापयन्ति परि:- समन्तात् तापयन्ति = पीडयन्तीत्यर्थः । बहुवचननिर्देशस्तु तदारम्भिणां बहुत्वं गमयति । यदि वा लोकशब्दः प्रत्येकं अभिसम्बध्यते कश्चित् लोको
टि० १. प्रभू ? वृत्ति क ॥। २ ० प्राकृते गङ च ॥
वि०टि० = " तस्मात् प्रभृति इति प्रथमसमयमादिं कृत्वा" जै०वि०प० ॥