________________
[श्रु०१ । अ०१ । उ०२ । सू०१०]
पृथ्वीहिंसका आर्त्तपरिद्यूनादिमन्तः भवति इति उक्तम्, यः तु अपरिज्ञातकर्मा स भावार्तो भवतीति । तथा आदिसूत्रेण सम्बन्धः, सुधर्मस्वामी जम्बूनाम्ने इदमाचष्टे श्रुतं मया, किं तत् श्रुतम् ? पूर्वोद्देशका प्रदर्श्य इदमपि इति अट्टेत्यादि । परम्परसम्बन्धस्तु इहमेगेसिं नो सन्ना भवतीति उक्तम्, कथं पुनः सञ्ज्ञा न भवतीति ? आर्तत्वात्, तदाह
अट्टेत्यादि । आर्तो नामादिश्चतुर्धा । नाम - स्थापने क्षुण्णे । ज्ञशरीर-भव्यशरीरतद्व्यतिरिक्तो नोआगमतो द्रव्यार्तः शकटादिचक्राणां उद्धिमूले वा यो लोहमयः पट्टो दीयते स द्रव्यार्तः । भावार्तेस्तु द्विधा— आगमतो नोआगमतश्च । तत्र आगमतो ज्ञाता आर्तपदार्थज्ञः तत्र च उपयुक्तः । नोआगमतः तु औदयिकभाववर्ती राग-द्वेषग्रहपरिगृहीतान्तरात्मा प्रियविप्रयोगादिदुःखसङ्कटनिमग्नो भावार्त इति व्यपदिश्यते, अथवा शब्दादिविषयेषु विषविपाकसदृशेषु तदाकाङ्क्षत्वाद् हिता-हितविचारशून्यमना भावार्तः कर्म्म उपचिनोति, यत
उक्तम्
“सोइंदियवैसट्टे णं भंते ! जीवे किं बंधइ ? किं चिणाइ ? किं उवचिणाइ ? गोयमा ! अट्ठ कम्मपयडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरे ... जाव अणाइयं च णं अणवयग्गं दीहमद्धं चाउरंतसंसारकंतारमणुपरियट्टइ
[ व्या० प्रज्ञ०१२।२।४४२ ]
एवं स्पर्शनादिषु अपि आयोजनीयम् । एवं क्रोध - मान-माया - लोभ-दर्शनमोहनीयचारित्रमोहनीयादिभिः भावार्ता: संसारिणो जीवा इति, उक्तं च
'राग-द्दोस - कसाएहिं इंदिएहिं य पंचहिं ।
दुहा वा मोहणिज्जेण अट्टा संसारिणो जिया ॥ " [
4.
]
यदि वा ज्ञानावरणीयादिना शुभा - शुभेन अष्टप्रकारेण कर्मणा आर्तः । कः पुनरेवंविधः ? इत्यत आह— लोकयतीति लोकः एक-द्वि-त्रि- चतुः - पञ्चेन्द्रियजीवराशिरित्यर्थः । अत्र लोकशब्दस्य नाम - स्थापना - - द्रव्य-क्षेत्र - काल-भव-भाव - पर्यायभेदाद् अष्टधा निक्षेपं प्रदर्श्य अप्रशस्तभावोदयवर्तिना लोकेन इह अधिकारो वाच्यः ।
यस्माद् यावान् आर्तः सर्वोऽपि परिद्यून इति । परिद्यूनो नाम परिपेलवो निस्सारः
टि० १. ०र्तश्च च ॥ २. ० काङ्क्षित्वाद् घ ङ च ॥ ३ ०वसगे क । ०वसद्दे ग ॥। ४. इत्याह ख । इत्यत्राह ग ।। ५. अथ ख ॥। ६. ०पने क्षुण्णत्वाद् अनादृत्य द्रव्य क्षेत्र० ख ।। ७. परिदून क। गघ प्रत्योः पाठभङ्गः ॥
६५