________________
साधुनिन्दयाऽनन्तसंसारित्वम्
[श्रु०१। अ०१। उ०२। नि०१०२]
साम्प्रतं दृष्टान्तगर्भं निगमनमाह[नि०] अणगारवाइणो पुढविहिंसगा णिग्गुणा अगारिसमा ।
णिद्दोस त्ति य मइला विरड्दुगुंछाए मइलतरा ॥१००॥ अणेत्यादि । अनगारवादिनः 'वयं यतय' इति वदनशीलाः पृथिवीकायविहिंसकाः सन्तो निर्गुणाः, यतोऽतः अगारिसमा गृहस्थतुल्या भवन्ति । अभ्युच्चयमाहसचेतना पृथिवी इति एवं ज्ञानरहितत्वेन तत्समारम्भवतिनः सदोषा अपि सन्तो 'वयं निर्दोषा' इति एवं मन्यमानाः स्वदोषप्रेक्षाऽविमुखत्वात् मलिना: कलुषितहृदयाः । पुनश्च अतिप्रगल्भतया साधुजनाश्रिताया निरवद्यानुष्ठानात्मिकाया विरतेः जुगुप्सया निन्दया मलिनतरा भवन्ति । अनया च साधुनिन्दया अनन्तसंसारित्वं प्रदर्शितं भवतीति ॥१००।।
एतच्च गाथाद्वयं सूत्रोपात्तार्थानुसारि अपि वधद्वारावसरे नियुक्तिकृता अभिहितम्, तस्य स्वयमेव उपात्तत्वेन तद्व्याख्यानस्य न्याय्यत्वात् । तच्चेदं सूत्रम्-लज्जमाणा पुढो पास अणगारा मो त्ति एगे पवदमाणे [सू०१२]त्यादि।
अयं च वधः कृत-कारिता-ऽनुमतिभिः भवतीति तदर्थमाह[नि०] केई सयं वहंती केई अन्नेहि तुं वधावेंति ।
केई अणुमन्नंती पुढविक्कायं वहेमाणा ॥१०१॥ के० इत्यादि । स्पष्टा ॥१०१॥ तद्वधेऽन्येषामपि तदाश्रितानां वधो भवतीति दर्शयितुमाह[नि०] जो पुढवि समारभए अन्ने वि हु सो समारभइ काए ।
अणियाए अ णियाए दिस्से य तहा अदिस्से य ॥१०२॥ जो इत्यादि । यः पृथिवीकार्य समारभते व्यापादयति तथा स अन्यानपि अप्काय-द्वीन्द्रियादीन् समारभते-व्यापादयति, उदुम्बरफलभक्षणप्रवृत्तः तत्फलान्तःप्रविष्टत्रसजन्तुभक्षणवदिति । तथा अणियाए य नियाए त्ति अकारणेन कारणेन च, यदि वा
टि० १.०मारंभति ब ठ॥ २. य ठ॥
वि०टि० * णीयाए चेव अणियाए त्ति, द्विविधा वेदना तत्र निदया आभोगतः, अनिदया त्वनाभोगतः [समवा०सू०वृ०१५३ पृ०२७८] ॥
६३