________________
६२
[श्रु०१ । अ०१ । उ०२ । नि०९९]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
तथा हि— भगवत्यां दृष्टान्त उपात्तो यथा चतुरन्तचक्रवर्तिनो गन्धपेषिका यौवनवर्तिनी बलवती आर्द्रामलकप्रमाणं सचित्तपृथिवीगोलकं एकविंशतिकृत्वो गन्धपट्टके कठिनशिलापुत्रकेण पिंष्यात्, ततः तेषां पृथिवीजीवानां कश्चित् सङ्घट्टितः कश्चित् परितापितः कश्चिद् व्यापादितः, अपरः किल तेन शिलापुत्रकेण न स्पृष्टोऽपीति ॥९८॥
वधद्वारमाह
[नि०]
पवयंति य अणगारा ण य तेहिं गुणेहिं जेहिं अणगारा । पुढविं विहिंसमाणा ण होंति वायाए अणगारा ॥९९॥
पवयंतीत्यादि । इह हि एके कुतीर्थिका यतिवेषं आस्थाय एवं च प्रवदन्ति– ‘वयम् अनगाराः=प्रव्रजिताः । न च तेषु गुणेषु निरवद्यानुष्ठानरूपेषु वर्तन्ते येषु अनगाराः । यथा च अनगारगुणेषु न वर्तन्ते तद् दर्शयति-यत: ते अहर्निशं पृथिवीजीवविपत्तिकारिणो दृश्यन्ते गुद-पाणि-पादप्रक्षालनार्थम्, अन्यथाऽपि निर्लेप-निर्गन्धत्वं कर्तुं शक्यम् । अतश्च यतिगुणकलापेनिरपेक्षा न वाङ्मात्रेण युक्तिशून्येन अनगारा भवन्तीति । अनेन प्रयोगः सूचितः । तत्र गाथापूर्वार्धेन प्रतिज्ञा, पश्चार्धेन हेतु:, उत्तरगाथार्धेन साधर्म्यदृष्टान्तः । स चायं प्रयोगः–कुतीर्थिका यत्यभिमानवादिनोऽपि यतिगुणेषु न वर्तन्ते, पृथिवीहिंसाप्रवृत्तत्वाद्, इह ये ये पृथिवीहिंसाप्रवृत्ताः ते ते यतिगुणेषु न वर्तन्ते, गृहस्थवत् ॥९९॥
टि० १. उक्तो यथा च ॥ २. ०रङ्गच० घ ङ ॥ ३. ण हु ते वा० ख ठ ॥ ४. आधायैवं च ॥ ५. ० पशून्या न कप्रति विमुच्यान्यत्र ॥ ६. ०क्तिनिरपेक्षेणानगा० कप्रतिमृतेऽन्यत्र || ७. ०गारत्वं बिभ्रतीति क ख । ०गारता भवतीति ग घ । ङसंज्ञादर्शे पाठत्रुटि: ॥
वि०टि० * तत्सूत्रं त्वेवम् — पुढविकाइयस्स णं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! से जहानामए रन्नो चाउरंतचक्कवट्टिस्स वन्नगपेसिया तरुणी बलवं जुगवं जुवाणी अप्पायंका वन्नओ....जाव निउणसिप्पोवगया नवरं चम्मेदुहणमुट्ठियसमाहयणिचयगत्तकाया न भणति सेसं तं चेव....जाव निउणसिप्पोवगया तिक्खाए वयरामईए सहकरणीए तिक्खेणं वइरामएणं वट्टावरएणं एगं महं पुढविकाइयं जतुगोलासमाणं गहाय पडिसाहरिय २ पडिसंखिविय २.... जाव इणमेव त्ति कट्टु त्तिसत्तक्खुत्तो उप्पीसेज्जा तत्थ णं गोयमा ! अत्थेगतिया पुढविकाइया आलिद्धा अत्थेगइया पुढविक्काइया नो आलिद्धा, अ संघट्टिया अत्थेगइया नो संघट्टिया, अत्थेगइया परियाविया अत्थेगइया नो परियाविया, अत्थेगया वि अत्थेगइया नो उद्दविया, अत्थेगइया पिट्ठा अत्थेगइया नो पिट्ठा, पुढविकाइयस्सं णं गोयमा एमहालिया सरीरोगाहणा पण्णत्ता । [ व्या० प्रज्ञ०१९ |३|६४३] ॥
इदमत्र अवधेयम्- अत्र भगवत्यां गन्धपेषिकास्थाने वर्णकपेषिकापाठं तथा आर्द्रामलकप्रमाणस्थाने जतुगोलकप्रमाणपाठं गृहीतं इति एतावान् विशेषः।