________________
पृथ्वीकाये वेदनाः
[श्रु०१। अ०१। उ०२। नि०९८]
हलेत्यादि । तत्र हल-कुलिक-विष-कुद्दाला-ऽलित्रक-मृगशृङ्ग-काष्ठा-ऽग्निउच्चार-प्रश्रवणादिकं एतत् समासतः सङ्क्षपतः द्रव्यशस्त्रम् ॥९५।।
विभागद्रव्यशस्त्रप्रतिपादनाय आह[नि०] किंची सकायसत्थं किंची परकाय तदुभयं किंचि ।
एयं तु दव्वसत्थं भावे उ असंजमो सत्थं ॥१६॥ दारं ॥ किंचीत्यादि । किञ्चित् स्वकायशस्त्रं पृथिव्येव पृथिव्याः । किञ्चित् परकायशस्त्रं उदकादि । तदुभयं किञ्चिद् इति भूदकं मिलितं भुवः । एतच्च सर्वमपि द्रव्यशस्त्रम् । भावे पुनः असंयमः दुष्प्रयुक्ता मनो-वाक्-कायाः शस्त्रमिति ॥९६।।
वेदनाद्वारमाह[नि०] पायच्छेयण भेयण जंघोरू तेह य अंगमंगेसु ।
जह होंति नरा दुहिया पुढविक्काए तहा जाण ॥१७॥ पाएत्यादि । यथा पादादिकेषु अङ्ग-प्रत्यङ्गेषु छेदन-भेदनादिकया क्रियया नरा दुःखिताः तथा पृथिवीकायेऽपि वेदनां जानीहि ॥१७॥
यद्यपि पाद-शिरो-ग्रीवादीनि अङ्गानि पृथिवीकायिकानां न सन्ति तथापि तच्छेदनानुरूपा वेदना अस्ति एव इति दर्शयितुमाह[नि०] नत्थि य सि अंगमंगा तयाणुरूवा य वेयणा तेसि ।
केसिंचि उदीरेंती केसिं चऽइवायए पाणे ॥९८॥ नत्थि य स्ये[?सी]त्यादि । पूर्वार्धं गतार्थम् । केषाञ्चित् पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदनां उदीरयन्ति, केषाञ्चित् तु प्राणान् अपि अतिपातयेयुरिति ।
टि० १. तहेव अंगुवंगेसु ख ठ । तहेव अंगवंगेसु ज झ । तहेव अंग० ब ॥ २. ०क्कायं तहा । क ॥ ३. पि जानीहि वेदनाम् क ॥ ४. सम्भवन्ति ख ।। ५. से अंगोवंगा ख । सि अंगुवंगा ठ । सि यंग० ञ ॥ ६. ०सिंचि उ वायओ पा० ख । ०सिंचि य वा० झ । ०सिंचि इ वा० ठ ।।