________________
[श्रु०१। अ०१। उ०२। नि०९२] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
बायरेत्यादि । बादरपृथिवीकायिकः पर्याप्तो यस्मिन् आकाशखण्डे अवगाढ: तस्मिन् एव आकाशखण्डे अपरस्यापि बादरपृथिवीकायिकस्य शरीरमवगाढमिति । शेषाः तु अपर्याप्ताः पर्याप्तकनिश्रया समुत्पद्यमाना अनन्तरप्रक्रियया पर्याप्तकावगाढाकाशप्रदेशावगाढाः । सूक्ष्माः पुनः सर्वस्मिन् अपि लोके अवगाढा इति ॥९१।। उपभोगद्वारमाह[नि०] चंकमणे य ट्ठाणे णिसीयण तुयट्टणे ये कयकरणे ।
उच्चारे पासवणे उवकरणाणं चे निक्खिवणे ॥१२॥ [नि०] आलेवण पहरण भूसणे य कयविक्कए किसीए य ।
भंडाणे पि य करणे उवभोगविही मणुस्साणं ॥१३॥ चंकमणेत्यादि, आलेवणेत्यादि । चङ्क्रमण-ऊर्द्धस्थान-निषीदन-त्वग्वर्तनकृतकपुत्रककरण-उच्चार-प्रश्रवण-उपकरणनिक्षेप-आलेपन-प्रहरण-भूषण-क्रय-विक्रयकृषीकरण-भण्डकघटनादिषु उपभोगविधिः मनुष्याणां पृथिवीकायेन भवतीति ॥९२-९३।।
___ यद्येवं ततः किम् ? इति अत आह[नि०] एएहिं कारणेहिं हिंसंती पुढविकाइए जीवे ।
सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥९४॥ दारं ॥ एएहिमित्यादि । एभिः चङ्क्रमणादिभिः कारणैः पृथिवीजीवान् हिंसन्ति । किमर्थम् ? इति दर्शयति- सातं-सुखं आत्मनो अन्विषन्तः परदुःखानि अजानानाः कतिपयदिवसरमणीयभोगाशाकर्षितसमस्तेन्द्रियग्रामा विमूढचेतस इति । परस्य-पृथिव्याश्रितजन्तुराशेः, दुःखम् असातलक्षणं, तद् उदीरयन्ति उत्पादयन्तीति । अनेन भूदानजनित: शुभफलोदयः प्रत्युक्त इति ॥९४।।
अधुना शस्त्रद्वार- शस्यते अनेन इति शस्त्रम्, तच्च द्विधा-द्रव्यशस्त्रं भावशस्त्रं च । द्रव्यशस्त्रमपि समास-विभागभेदाद् द्विधैव । तत्र समासद्रव्यशस्त्रप्रतिपादनाय आह[नि०]हल-कुलिय-विस-कुद्दाला अलित्त-मिगसिंग-कट्ठमग्गी य ।
उच्चारे पासवणे एयं तु समासओ सत्थं ॥१५॥
टि०१. य करणे य छ । २. तु ख ज झ । पि ञ ॥ ३. ०णंकियकरणे क ॥ ४. ०घट्टना० घ ङ॥ ५. oहिं वि हंसं० ज॥ ६. ०न्ति ईरयन्ती० ग ॥ ७. ०लियाविस-कुद्दालालित्तमिग० ठ॥ ८. ०सकोद्दा[?कुदा]लयखणित्तमिग० ब ॥