SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ क्षेत्र-कालयोः सूक्ष्म-बादरत्वम् [श्रु०१। अ०१। उ०२। नि०९१] [नि०] लोगागासपएसे ऐक्केकं निक्खिवे पुढविजीवं । ऐवं मविज्जमाणा हवंति लोगा असंखेज्जा ॥४८॥ लोएत्यादि । स्पष्टा ॥८८॥ साम्प्रतं कालतः प्रमाणं निर्दिदिक्षुः क्षेत्र-कालयोः सूक्ष्म-बादरत्वमाह[नि०] निउणो य होइ कालो तत्तो णिउणयतरं हवइ खेत्तं । अंगुलसेढीमेत्ते उसप्पिणीओ असंखेज्जा ॥८९॥ निउणेत्यादि । निपुण: सूक्ष्मः कालः समयात्मकः, ततोऽपि सूक्ष्मतरं क्षेत्रं भवति, यतो अङ्गुलीश्रेणिमात्रक्षेत्रप्रदेशानां समयापहारेण असङ्ख्येया उत्सर्पिण्यवसर्पिण्यो अपक्रामन्तीति, अतः कालात् क्षेत्रं सूक्ष्मतरम् ॥८९।। प्रस्तुतं कालतः परिमाणं दर्शयितुमाह[नि०] अणुसमयं च पवेसो णिक्खमणं चेव पुढविजीवाणं । काए कायट्ठितिया चउरो लोया असंखेज्जा ॥१०॥ अणुसमयमित्यादि । तत्र जीवाः पृथिवीकाये अनुसमयं प्रविशन्ति निष्क्रामन्ति च । एकस्मिन् समये कियतां निष्क्रमः प्रवेशश्च १-२ ?; तथा विवक्षिते च समये कियन्तः पृथिवीकायपरिणताः सम्भवन्ति ३ ?; तथा कियती च कायस्थितिः ४ ? इति; एते चत्वारोऽपि विकल्पाः कालतो अभिधीयन्ते। तत्र असङ्ख्येयलोकाकाशप्रदेशपरिमाणाः समयेन उत्पद्यन्ते विनश्यन्ति च। पृथिवीत्वेन परिणता अपि असङ्ख्येयलोकाकाशप्रदेशप्रमाणाः। तथा कायस्थितिरपि मृत्वा मृत्वा असङ्ख्येयलोकाकाशप्रदेशप्रमाणं कालं तत्र तत्र उत्पद्यन्त इति ॥९०॥ एवं क्षेत्र-कालाभ्यां प्रमाणं प्रतिपाद्य परस्परावगाहनाप्रतिपिपादयिषया आह[नि०] बायरपुढविक्काइयपज्जत्ता अन्नमन्नमोगाढा । सेसा ओगाहंती सुहमा पुण सव्वलोयम्मि ॥९॥ दारं ॥ टि० १. एक्कक्के क-छ-अप्रतीविना ॥ २. एवं गणिज्ज० झ ञ ॥ ३. परिमाणं ख ॥ ४. इ झ । उ ठ ॥ ५. ०यरयं ह० ठ ॥ ६. ओसप्पिणिओ ख ज ।। ७. ०शपरिमाणं कपुस्तकेन विनाऽन्यत्र । ८. परिमाणं कप्रति विमुच्यान्यत्र ।। ९. नास्तीयं गाथा झसंज्ञकादर्श ॥ ५९
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy