________________
[श्रु०१।०१। उ०२।नि०८५] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
ननु च अश्मलतादेः कठिनपुद्गलात्मिकायाः कथं चेतनत्वम् ? इति, अत्राह[नि०] अट्ठी जहा सरीरम्मि अणुगयं चेयणं खरं दिळं ।
एवं जीवमणुगयं पुढविसरीरं खरं होइ ॥८५॥ अद्विमित्यादि । यथा अस्थि शरीरानुगतं सचेतनं खरं दृष्टं एवं जीवानुगतं पृथ्वीशरीरमपीति ॥८५॥ साम्प्रतं लक्षणद्वारानन्तरं परिमाणद्वारमाह[नि०] जे बायरपज्जत्ता पयरस्स असंखभागमेत्ता ते ।
सेसा तिन्नि वि रासी वीसुं लोया असंखेज्जा ॥८६॥ जे बायरेत्यादि । तत्र पृथिवीकायिकाः चतुर्धा, तद्यथा-बादराः पर्याप्ता अपर्याप्ताश्च, तथा सूक्ष्मा अपर्याप्ताः पर्याप्ताश्च । तत्र ये बादराः पर्याप्ताः ते संवर्तितलोकप्रतरासङ्ख्येयभागमात्रवर्तिप्रदेशराशिप्रमाणा भवन्ति, शेषास्तु त्रयोऽपि राशयः प्रत्येकं असङ्ख्येयानां लोकानां आकाशप्रदेशराशिप्रमाणा भवन्ति । यथानिर्दिष्टक्रमेण च एते यथोत्तरं बहुतराः, यत उक्तम्
"सव्वत्थोवा बायरपुढविकाइया पज्जत्ता, बादरपुढविकाइया अपज्जत्ता असंखेज्जगुणा, सुहुमपुढविकाइया अपज्जत्ता असंखेज्जगुणा, सुहुमपुढविकाइया पज्जत्ता असंखेज्जगुणा ।" [ प्रज्ञा०सू०३।२५०(२)] ॥८६॥
प्रकारान्तरेणापि राशित्रयस्य प्रमाणं दर्शयितुमाह[नि०] पत्थेण व कुंडवेण व जह कोइ मिणिज्ज सव्वधन्नाई ।
एवं मविज्जमाणा हवंति लोगा असंखेज्जा ॥८७॥ पत्थेत्यादि । यथा प्रस्थादिना कश्चित् सर्वधान्यानि मिनुयाद् एवं असद्भावप्रज्ञापनाङ्गीकरणाद् लोकं कुडवीकृत्य अजघन्योत्कृष्टावगाहनान् पृथिवीकायिकान् जीवान् यदि मिनोति ततः असङ्ख्येयान् लोकान् पृथिवीकायिकाः पूरयन्ति ॥८७॥
पुनरपि प्रकारान्तरेण परिमाणमाह
टि० १. अत आह कप्रतिमनादृत्य ॥ २. जीवाणुगयं ख ज झ ठ ॥ ३. लोए झ ञ ॥ ४. सूक्ष्माः पर्याप्ता अपर्याप्ताश्च ग ङ॥ ५. ०शिपरिमाणा ख ॥ ६. ०णैवैते ग ॥ ७. परिमाणं कसंज्ञकादर्शेन विना ॥ ८. कुलवेण ख । कुडएण ज झ । कुलएण ठ विना ॥