SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ श्री समवसरणाध्ययनं की शिक्षा दी है । यहां नाम शब्दसम्भावना के अर्थ में है, जिसका अर्थ यह है कि वे विनय से अपने कार्य की सिद्धि होती है, ऐसा सम्भावित मानते हैं । अतएव उनकी उक्ति है कि समस्त कल्याण का भाजन विनय है-विनय से सर्वविध कल्याण सिद्ध होता है । अणोवसंखा इति ते उदाहू, अद्वे स ओभासइ अम्ह एवं । लवावसंकी य अणागएहिं, णो किरियमाहंसु अकिरियवादी ॥४॥ छाया - अनुपसंख्ययेति ते उदाहृतवन्तः अर्थः स्वोऽवभासतेऽस्माक मेवम् । ____ लवावशङ्किनश्चानागतै! क्रियामाहुरक्रियावादिनः ॥ अनुवाद - विनयवादी प्रतिपादित करते हैं कि हमें अपने प्रयोजन या लक्ष्य की सिद्धि विनय से ही प्राप्त होती दिखाई देती है । वास्तव में वे यथार्थ तत्त्व को नहीं समझते हुए ऐसा कहते हैं। इसी प्रकार कर्मबंध में आशंकाशील अक्रियावादी भूत और भविष्य द्वारा वर्तमान को असिद्ध मानकर क्रिया का निषेध करते हैं। टीका - किंचान्यत्-संख्यानं संख्या-परिच्छेदः उप सामीप्येन संख्या उपसंख्या-सम्यग्यथावस्थितार्थपरिज्ञानं नोपसंख्याऽनुपसंख्या तयाऽनुपसंख्यया-अपरिज्ञानेन व्यामूढ़मतयस्ते वैनयिकाः स्वाग्रहग्रस्ता इति एतद्-यथा विनयादेव केवलात्स्वर्गमोक्षावाप्तिरित्युदाहृतवन्तः, एतच्च ते महामोहाच्छादिता 'उदाहुः' उदाहृतवन्तः, - यथैवं सर्वस्य विनयप्रतिपत्त्या स्वोऽर्थः-स्वर्गमोक्षादिकः अस्माकम् अवभासते' आविर्भवति प्राप्यते इतियावत्, अनुपसंख्योदाहृतिश्च तेषामेवमवगन्तव्या, तद्यथा-ज्ञान क्रियाभ्यां मोक्षसद्भावे सति तदपास्य विनयादेवैकस्मात्तदवाप्त्यभ्युपदमादिति यदप्युक्तं 'सर्वकल्याणभाजनं' तदापि सम्यग्दर्शनादिसंभवे सति विनयस्य कल्याणभाक्त्वं भवति नैककस्येति, तद्रहितो हि विनयोपेतःसर्वस्य प्रह्वतया न्यत्कारमेवापादयति, ततश्च विवक्षितार्थावभासनाभावात्तेषामेवंवादिनामज्ञावृतत्वमेवावशिष्यते, नाभिप्रेतार्थावाप्तिरित्युक्ता:वैनयिकाः॥साम्प्रतमक्रियावादिदर्शनं निराचिकीर्षुः पश्चार्धमाहलवं-कर्म तस्मादपशङ्कितुम्अपसर्तुं शीलं येषां ते लवापशङ्किनो-लोकायतिकाः शाक्यादयश्च, तेषामात्मैव नास्ति कुतस्तत्क्रिया तजनितो वा कर्मबन्ध इति, उपचारमात्रेण त्वस्ति बन्धः तद्यथा ‘बद्धामुक्ताश्च कथ्यन्ते, मुष्टिग्रन्थिकपोतकाः । न चान्ये द्रव्यतः सन्ति, मुष्टि ग्रन्थिकपोतकाः ॥१॥ तथाहि-बौद्धानामयमभ्युपगमो, यथा-'क्षणिका:सर्वसंस्कारा' इति अस्थितानां (च) कुतः क्रिये त्यक्रियावादित्वं, योऽपि स्कन्धपञ्चकाम्युपगमस्तेषां सोऽपि संवृतिमात्रेण न परमार्थेन, यतस्तेषामयमभ्युपगमः, तद्यथा-विचार्यमाणाः पदार्था न कथञ्चिदप्यात्मानं निज्ञानेन समर्पयितुमलं, तथाहि-अवयवी तत्त्वान्यत्वाभ्यां विचार्यमाणो न घटां प्राञ्चति, नाप्यवयवाः परमाणुपर्यवसानतयाऽतिसूक्ष्मत्वाज्ज्ञानगोचरतां प्रतिपद्यन्ते, विज्ञानमपि ज्ञेयाभावेनामूर्तस्य निराकारतया न स्वरूपं बिभर्ति, तथा चोक्तम् - ' "यथा यथाऽश्चिन्त्यन्ते, विविच्यन्ते. तथा तथा । युद्येतत्स्वयमर्थेभ्यो, रोचते तत्र के वयम् ? ॥१॥" इति, प्रच्छन्नलोकायतिका हि बौद्धाः तत्रानागतैः क्षणैः, चशब्दादतीतैश्च वर्तमानक्षणस्यासंगतेर्न क्रिया, नापि च तजनितः कर्मबन्ध इति । तदेवमक्रियावादिनो नास्तिकवादिनः सर्वापलापितया लवावशङ्किनः सन्तो न क्रियामाहुः, तथा अक्रिय आत्मा येषां सर्वव्यापितया तेऽप्यक्रियावादिनः सांख्या: तदेवं ते लोकायतिकबौद्धसांख्या अनुपसंख्यया-अपरिज्ञानेनेति-एतत् पूर्वोक्तमुदाहृतवन्तः तथैतत्त्वज्ञानेनैवोदाहृत-वन्तःतद्यथाअस्माकमेवमभ्युपगमेऽर्थोऽव
SR No.032440
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorSudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
PublisherShwetambar Sthanakvasi Jain Swadhyayi Sangh
Publication Year1999
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy