SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ श्री समाध्ययनं दशमं श्री समाध्ययन आघं मइमं मणुवीय धम्मं, अंजू समाहिं तमिणं सुणेह । अपडिन्न भिक्खू उ समाहिपत्ते, अणियाण भूतेसुपरिव्वएज्जा ॥१॥ छाया - आख्यातवान मतिमान, अनुविचिन्त्य धर्मम् ऋजुं समाधिं तमियं शृणुत । अप्रतिज्ञभिक्षुस्तु, समाधिप्राप्तोऽनिदानो भूतेषु परिव्रजेत् ॥ अनुवाद - मतिमान-प्रज्ञा के महान धनी, सर्वज्ञ प्रभु महावीर ने ऋजु-सरल तथा समाधिमय-मोक्षप्रद धर्म आख्यात किया है । शिष्य वृन्द ! उसका तुम श्रवण करो । अप्रतिज्ञ-अपने तपश्चरण के फल का अनभिलाषी समाधि प्राप्त-समाधियुक्त प्राणी हिंसा विवर्जित साधु परिव्रज्या-शुद्ध संयम का पालन करे । टीका - अस्य चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथाअशेषगारवपरिहारेण मु (ग्रं. ५५००) निर्निवाणमनुसन्धयेदित्येतद्भगवानुत्पन्नदिव्यज्ञान:समाख्यातवान् एतच्च वक्ष्यमाणमाख्यातवानिति, आघ'त्ति आख्यातवान् कोऽसौ ? - 'मतिमान्' मननं मतिः-समस्तपदार्थपरिज्ञानं तद्विद्यते यस्यासौ मतिमान् केवलज्ञानीत्यर्थः, तत्रासाधारणविशेषणोपादानात्तीर्थकृद गृहते, असावपि प्रत्यासत्तेर्वीरवर्धमानस्वामी गृह्यते, किमाख्यातवान ? - 'धर्म' श्रुतचारित्राख्यं, कथम् ? - 'अनुविचिन्त्य' केवलज्ञानेन ज्ञात्वा प्रज्ञापनायोग्यान् पदार्थानाश्रित्य धर्मं भाषते, यदिवा-ग्राहकमनुविचिन्त्य कस्यार्थस्यायं ग्रहणसमर्थः ? तथा कोऽयंपुरुषः ? कञ्चनतः ? किं वा दर्शनमापन्न? इत्येवं पर्यालोच्य, धर्मशुश्रूषवो वा मन्यन्ते-यथा प्रत्येकमस्मदभिप्रायमनुविचिन्त्य भगवान् धर्म भाषते, युगपत्सर्वेषां स्वभाषापरिणत्या संशयापगमादिति, किंभूतं धर्मभाषते ? - 'ऋजुम' अवक्रं यथावस्थितवस्तुस्वरूपंनिरूपणतो, न यथा शाक्याः सर्वं क्षणिकमभ्युपगम्य कृतनाशा कृताभ्यागमदोषभयात्सन्तानाभ्युपगमं कृतवन्तः तथा वनस्पतिमचेतनत्वेनाभ्युपगम्य स्वयं न छिन्दन्ति तच्छेदनादावुपदेशं तु ददति तथा कार्षापणादिकं हिरण्यं स्वतो नस्पृशन्ति अपरेण तु तत्परिग्रहतःक्रयविक्रयंकारयन्ति,तथा साङ्घया सर्वमप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्यमभ्युपगम्य कर्मबन्धमोक्षाभावप्रसंगदोषभयादाविर्भावति-रोभावावाश्रितवन्त इत्यादि कौटिल्यभावपरिहारेणा वर्ऋतथ्यं धर्ममाख्यातवान्, तथा सम्यगाधीयते-मोक्षं तन्मार्ग वा प्रत्यात्मा योग्यः क्रियते व्यवस्थाप्येत येन धर्मेणासौ धर्मः समाधिस्तं समाख्यातवान्, यदिवा-धर्ममाख्यातवांस्तत्समाधिं च धर्मध्यानादिक मिति । सुधर्मस्वाम्याह-तमिम-धर्मं समाधि वा भगवदुपदिष्टं शृणुत यूयं, तद्यथा-न विद्यते ऐहिकामुष्मिकरुपा प्रतिज्ञा-आकाङ्क्षा तपोऽनुष्ठानं कुर्वतो यस्यासावप्रतिज्ञो, भिक्षणशीलो भिक्षुः तुर्विशेषणे भावभिक्षुः, असावेव परमार्थतः साधुः, धर्मं धर्मसमाधिं च प्राप्तोऽसावेवेति, तथा न विद्यते निदानमारभ्मरुपं भूतेषु' जन्तुषु, यस्यासावनिदानः स एवंम्भूतः सावद्यानुष्ठान रहितः परि-समन्तात्संयमानुष्ठाने व्रजेद्' गच्छेदिति, यदिवा-अनिदानभूतः अनाश्रवभूतः कर्मोपादानरहितः सुष्ठु परिव्रजेत् सुपरिव्रजेत्, यदिवाअनिदानभूतानि-अनिदानकल्पानि ज्ञानादीनि तेषु परिव्रजेत्, अथवा निदानं हेतु-कारणं दुःखस्यातोऽनिदानभूतः कस्यचिद्दुःखमनुपपादयन् संयमे पराक्रमेतेति ॥१॥ टीकार्थ - प्रस्तुत सूत्र का पूर्वतन् सूत्र के साथ यह संबंध है, नवम् अध्याय की अन्तिम गाथा में प्रतिपादित हुआ है कि साधु समस्त सांसारिक सुख भोगों का परित्याग कर मोक्ष की साधना में संलग्न बने। सर्वज्ञ भगवान महावीर ने, जैसा आगे समुपवर्णित होगा-धर्म का आख्यान किया । अब यह बतलाते हैं । भगवान महावीर स्वामी की विशेषताओं के सम्बन्ध में जिज्ञासा करते हुए पूछते हैं कि भगवान कैसे हैं ? 443
SR No.032440
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorSudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
PublisherShwetambar Sthanakvasi Jain Swadhyayi Sangh
Publication Year1999
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy